Sutrasthana

Ritucharya adhyaya ऋतुचर्या Seasonal Regimen Ashtanga Hridayam Chapter 3
Ritucharya – Ayurvedic Seasonal Regimen Ritucharya, as defined by Ayurveda, refers to the seasonal routine one should follow to maintain optimal health throughout the year....
दिनचर्या-अध्याय-Daily-Routine-According-to-Ayurveda-Ashtanga-Hridayam-Chapter-2
Dinacharya Adhyaya: Daily Routine According to AyurvedaDaily regimenWe shall now discuss the Dinacharya Adhyaya, which is the chapter on daily regimen aspreached by Atreya...
Ashtanga Hridayam आयुष्कामीय अध्याय रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्|औत्सुक्यमोहारतिदाञ्जघानयोऽपूर्ववैद्याय नमोस्तु तस्मै|१| स० - राग आदिर्येषां ते रागादयः| आदिशब्देन द्वेषलोभादिपरिग्रहः| रुजन्तीति रोगाः| देहमनसी सन्तापयन्तीत्यर्थः| ननु मनःस्थितत्वान्मन एव ते रुजन्तीति वक्तुं युक्तम्| मैवम्| देहमनोलक्षणयोर्वस्तुनोराधाराधेयभावेन स्थितत्वाद्द्वयोरपि सन्तापो युक्तः| यथा आधेयेनायोगोलकेन सन्तप्तेन तदाधारस्य कटाहादेः सन्तापः| आधारेण च कटाहादिना सन्तप्तेनाधेयस्य घृतादेः सन्तापः| तदेवं रागादयो द्वयं रुजन्तीति न्याय्यमेतत्| तथा सततानुषक्ताः सर्वकालं प्रसृताः, सहजा इत्यर्थः| अशेषकायप्रसृता अशेषश्चासौ कायश्चाशेषकायः| तत्र प्रसृता अनुगताः| यद्वाऽशेषाश्च ते कायाश्चाशेषकायाः| सर्वाणि शरीराणि गजतुरगोरगादिसम्बम्धीनि तानि प्रकर्षेण सृता गताः| तथा अशेषाः न विद्यते शेषो येषां तेऽशेषाः सर्वे समूलाः| सबीजा इत्यर्थः| तथौत्सुक्यमोहारतिदाः| औत्सुक्यं विषयोत्कण्ठा गतोऽभिलाषः| मोहः कार्याकार्यानभिज्ञत्वम्| अरतिरनवस्थितिः| स्थानासनादिषु| औत्सुक्यं च मोहश्चारतिश्च ता ददति ये रागादयस्त एवम्| तानेवंविधान् यो भगवान् जघान तस्मै तथाभूतायापूर्ववैद्याय नमोऽस्तु| तं पूजयामीत्यर्थः| अत एवासावपूर्व आश्चर्यभूतो वैद्यः| अन्यो हि यो वैद्यः स ज्वरादीनप्यचिरोत्थितान् रोगानेतद्विशेषणैउरपरामृष्टान्न तथा हर्तुं समर्थः| किमुत रागादीनसाध्यलक्षणलक्षितान्| तथा चासाध्यलक्षणम्|(अस्मिन्नेवाध्याये श्लो. ३२)"अनुपक्रम एव स्यात् स्थितोऽत्यन्तविपर्यये| औत्सुक्यमोहारतिकृद्" इति| यद्वा न विद्यते पूर्वो यस्मादसावपूर्वः| पूर्वेभ्यः प्रथम इत्यर्थः| अपूर्वश्चासौ वैद्योऽपूर्ववैद्य इत्यर्थः| एवंविधं चाभिमतनमस्कारश्लोकं विरचयन् ग्रन्थकृद्ग्रन्थस्य रोगोपशांतिः प्रयोजनमिति प्रतिपादयति| तथा चाह चरकमुनिः (सू. अ. १|५२)"धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति| एवं च धातुसाम्येन प्रयोजनेन प्रयोजनवदिदं तन्त्रम्| तथा तत्पाठात्तदर्थावबोधात्तद्विध्यनुष्ठानाच्च आरोग्याख्यस्योपेयस्य तथाभिमतस्यायुषः परस्य पुरुषार्थस्य मोक्षाख्यस्य च परमार्थत इदमेव तन्त्रमुपायः| अस्माच्चोपायोपेयलक्षणसम्बधात् सम्बन्धवदिदं तन्त्रम्| तथा हेतुलिङ्गौषध्याख्यस्कन्धत्रयमस्याभिधेयं तेनाभिधेयेनाभिधेयवत्तन्त्रम्| एवं च ग्रन्थकृतात्र प्रयोजनसन्बन्धाभिधेया युक्त्यैवोक्ताः| इन्द्रवज्रोपेन्द्रवज्राविरचितत्वादुपजातिवृत्तम्| यथा, "अनन्तरापादितलक्ष्मशोभौ पादौ भवेतां विविधैर्विकल्पैः| यासामिमावन्ययतिप्रपञ्चौ स्मृताः स्मृतिज्ञैरुपजातयस्ताः||" इति| सर्वत्रैव चात्र तन्त्रेऽनुष्टुभा समानीप्रमाणीवितानादिभेदभिन्नतया विरचनम्| यत्पुनरवसरान्तरे वृत्तान्तरविरचनमिह तत्सलक्षणं व्यञ्जयिष्यामः| आ० र०-श्रीगणेशाय नमः| पृष्ठे कूर्मतया चतुर्भुजतया दोर्मण्डले मन्दरं रुद्ध्वा क्षीरसमुद्रमोषधिभृतं निर्मथ्य निष्पादितैः| आनीतैरमृतैर्भिषक्तमतया योषित्तया पायितैर्देवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे||१|| हेमाद्रिणा चतुर्वगचिन्तामणिविधायिना| तदुक्तव्रतदानादिसिद्ध्याङ्गारोग्यसिद्धये||२|| क्रियतेऽष्टाङ्गहृदयस्यायुर्वेदस्य सुग्रहा| टीका चरकहारीतसुश्रुतादिमतानुगा|| ३|| चरके हरिचन्द्राद्यैः सुश्रुते जैज्जटादिभिः| टीकाकारैर्न निर्णातमिह हेमाद्गिणोदितम्|| ४|| देशभ्रंशभयाद्विचाल्य लयिनः स्नेहैः प्रतापैः परं प्रद्राव्य प्रसृतान् प्रवेश्य परितो दुर्गोदरं द्राक्ततः| ऊर्ध्वाधोगति निर्गमय्य मदनैर्दन्त्यादिभिर्विद्विषो दोषानद्रढि रामराज्यमगदङ्कारेण हेमाद्रिणा|| ५|| हेमाद्रिर्नाम रामस्य राज्ञः श्रीकरणेष्वधि| ननूभौ भगवन्निष्ठषाङ्गुण्यकरणेष्वधि|| ६|| सर्वेषां द्वीपवर्णाणां मेरुरुत्तरतः स्थितः| तदस्तु सर्वोत्तरता हेमाद्रौ दृश्यते यतः|| ७|| सेव्या हेमाद्रिटीकेयमायुर्वेदरसायनम्| आयुर्वेदात्मनां पुंसां निर्दोषत्वम् हि नान्यथा||८|| अष्टाङ्गहृदयं मुख्यमनुक्तेऽष्टाङ्गसङ्ग्रहः| तन्त्रान्तराणि चोक्तानि वैषम्ये विवृतानि च||९|| आयुर्वेदं व्याचिख्यासुः श्रीवाग्भटाचार्यः प्रथमश्लोकेनेष्टदेवतां नमस्करोति-रागादिरोगानिति| स चापूर्ववैद्यः| अपूर्वत्वं च अद्भुतशक्तित्वम्| तच्च ज्वरादिविलक्षणानां रोगाणां घातेन| ते च रागादयः| शुद्धस्य चेतसो रजस्तमोभ्यां रञ्जनं रागः| तदादयस्तन्मूलाः कामक्रोधादयः| ज्वरादिविलक्षणत्वमेवाह-सततानुषक्तान्, सर्वकालमात्मना सम्बद्धान्| ननु, ज्वरादयोऽपि कुलोद्भवाः एवमित्यत आह-अशोषकायप्रसृतान्, यावन्त्यात्मनः शरीराणि तानि सर्वाण्यभिव्याप्य स्थितान्| ननु, कुलोद्भवा अपि कुष्ठार्शोमेहाद्या अनन्तव्यक्तिभेदेनैवमित्यत आह-अशेषान्, सर्वानेव युगपत्प्रतिदेहं स्थितान्| ननु, सत्कार्यवादिनां मते ज्वरादयोऽपि सूक्ष्मरूपेणैवमित्यत आह-औत्सुक्यमोहारतिदान्, औत्सुक्यम् अविचार्यकार्यप्रवृत्तिः, मोहो विचाराशक्तिः, अरतिः असन्तोषः ता ददत्यात्मनः समर्पयन्तीति तथा| औत्सुक्यादीनि स्वकार्यण्यद्भुतानि समर्पयन्तः सर्वे सर्वदेहेषु सर्वदा आत्मानं क्लेशयन्तीति ज्वरादिविलक्षणा एव रागादिरोगाः| जघानेति मोक्षशास्त्रप्रणयनेन वधोपायं दर्शितवान्| न तु स्वयं हतवन्| तथा ह्यधुना कामाद्यदर्शनं स्यात्|| The term "आयुष्कामीय अध्याय" can be translated to "chapter on longevity" in English. It refers to a section of...
0
    0
    Your Cart
    You're 2,000.00 away from 10% Discount
    2,000
    10% Discount
    Empty CartYour cart is emptyReturn to Shop
      Apply Coupon
        Products you might like
        Products you might like