Book Your AppointmentNewspaper WordPress Theme
ashtanga hridayaAyushkameeya Adhyaya "Desire for long life." आयुष्कामीय अध्याय : Ashtanga Hridayam Sutra...

Ayushkameeya Adhyaya “Desire for long life.” आयुष्कामीय अध्याय : Ashtanga Hridayam Sutra Sthana Chapter 1

Table of Contents

Ashtanga Hridayam आयुष्कामीय अध्याय

रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्|
औत्सुक्यमोहारतिदाञ्जघान
योऽपूर्ववैद्याय नमोस्तु तस्मै|१|

Click to read Sanskrit Tika
स० – राग आदिर्येषां ते रागादयः| आदिशब्देन द्वेषलोभादिपरिग्रहः| रुजन्तीति रोगाः| देहमनसी सन्तापयन्तीत्यर्थः| ननु मनःस्थितत्वान्मन एव ते रुजन्तीति वक्तुं युक्तम्| मैवम्| देहमनोलक्षणयोर्वस्तुनोराधाराधेयभावेन स्थितत्वाद्द्वयोरपि सन्तापो युक्तः| यथा आधेयेनायोगोलकेन सन्तप्तेन तदाधारस्य कटाहादेः सन्तापः| आधारेण च कटाहादिना सन्तप्तेनाधेयस्य घृतादेः सन्तापः| तदेवं रागादयो द्वयं रुजन्तीति न्याय्यमेतत्| तथा सततानुषक्ताः सर्वकालं प्रसृताः, सहजा इत्यर्थः| अशेषकायप्रसृता अशेषश्चासौ कायश्चाशेषकायः| तत्र प्रसृता अनुगताः| यद्वाऽशेषाश्च ते कायाश्चाशेषकायाः| सर्वाणि शरीराणि गजतुरगोरगादिसम्बम्धीनि तानि प्रकर्षेण सृता गताः| तथा अशेषाः न विद्यते शेषो येषां तेऽशेषाः सर्वे समूलाः| सबीजा इत्यर्थः| तथौत्सुक्यमोहारतिदाः| औत्सुक्यं विषयोत्कण्ठा गतोऽभिलाषः| मोहः कार्याकार्यानभिज्ञत्वम्| अरतिरनवस्थितिः| स्थानासनादिषु| औत्सुक्यं च मोहश्चारतिश्च ता ददति ये रागादयस्त एवम्| तानेवंविधान् यो भगवान् जघान तस्मै तथाभूतायापूर्ववैद्याय नमोऽस्तु| तं पूजयामीत्यर्थः| अत एवासावपूर्व आश्चर्यभूतो वैद्यः| अन्यो हि यो वैद्यः स ज्वरादीनप्यचिरोत्थितान् रोगानेतद्विशेषणैउरपरामृष्टान्न तथा हर्तुं समर्थः| किमुत रागादीनसाध्यलक्षणलक्षितान्| तथा चासाध्यलक्षणम्|(अस्मिन्नेवाध्याये श्लो. ३२)”अनुपक्रम एव स्यात् स्थितोऽत्यन्तविपर्यये| औत्सुक्यमोहारतिकृद्” इति| यद्वा न विद्यते पूर्वो यस्मादसावपूर्वः| पूर्वेभ्यः प्रथम इत्यर्थः| अपूर्वश्चासौ वैद्योऽपूर्ववैद्य इत्यर्थः| एवंविधं चाभिमतनमस्कारश्लोकं विरचयन् ग्रन्थकृद्ग्रन्थस्य रोगोपशांतिः प्रयोजनमिति प्रतिपादयति| तथा चाह चरकमुनिः (सू. अ. १|५२)”धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” इति| एवं च धातुसाम्येन प्रयोजनेन प्रयोजनवदिदं तन्त्रम्| तथा तत्पाठात्तदर्थावबोधात्तद्विध्यनुष्ठानाच्च आरोग्याख्यस्योपेयस्य तथाभिमतस्यायुषः परस्य पुरुषार्थस्य मोक्षाख्यस्य च परमार्थत इदमेव तन्त्रमुपायः| अस्माच्चोपायोपेयलक्षणसम्बधात् सम्बन्धवदिदं तन्त्रम्| तथा हेतुलिङ्गौषध्याख्यस्कन्धत्रयमस्याभिधेयं तेनाभिधेयेनाभिधेयवत्तन्त्रम्| एवं च ग्रन्थकृतात्र प्रयोजनसन्बन्धाभिधेया युक्त्यैवोक्ताः| इन्द्रवज्रोपेन्द्रवज्राविरचितत्वादुपजातिवृत्तम्| यथा, “अनन्तरापादितलक्ष्मशोभौ पादौ भवेतां विविधैर्विकल्पैः| यासामिमावन्ययतिप्रपञ्चौ स्मृताः स्मृतिज्ञैरुपजातयस्ताः||” इति| सर्वत्रैव चात्र तन्त्रेऽनुष्टुभा समानीप्रमाणीवितानादिभेदभिन्नतया विरचनम्| यत्पुनरवसरान्तरे वृत्तान्तरविरचनमिह तत्सलक्षणं व्यञ्जयिष्यामः| आ० र०-श्रीगणेशाय नमः| पृष्ठे कूर्मतया चतुर्भुजतया दोर्मण्डले मन्दरं रुद्ध्वा क्षीरसमुद्रमोषधिभृतं निर्मथ्य निष्पादितैः| आनीतैरमृतैर्भिषक्तमतया योषित्तया पायितैर्देवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे||१|| हेमाद्रिणा चतुर्वगचिन्तामणिविधायिना| तदुक्तव्रतदानादिसिद्ध्याङ्गारोग्यसिद्धये||२|| क्रियतेऽष्टाङ्गहृदयस्यायुर्वेदस्य सुग्रहा| टीका चरकहारीतसुश्रुतादिमतानुगा|| ३|| चरके हरिचन्द्राद्यैः सुश्रुते जैज्जटादिभिः| टीकाकारैर्न निर्णातमिह हेमाद्गिणोदितम्|| ४|| देशभ्रंशभयाद्विचाल्य लयिनः स्नेहैः प्रतापैः परं प्रद्राव्य प्रसृतान् प्रवेश्य परितो दुर्गोदरं द्राक्ततः| ऊर्ध्वाधोगति निर्गमय्य मदनैर्दन्त्यादिभिर्विद्विषो दोषानद्रढि रामराज्यमगदङ्कारेण हेमाद्रिणा|| ५|| हेमाद्रिर्नाम रामस्य राज्ञः श्रीकरणेष्वधि| ननूभौ भगवन्निष्ठषाङ्गुण्यकरणेष्वधि|| ६|| सर्वेषां द्वीपवर्णाणां मेरुरुत्तरतः स्थितः| तदस्तु सर्वोत्तरता हेमाद्रौ दृश्यते यतः|| ७|| सेव्या हेमाद्रिटीकेयमायुर्वेदरसायनम्| आयुर्वेदात्मनां पुंसां निर्दोषत्वम् हि नान्यथा||८|| अष्टाङ्गहृदयं मुख्यमनुक्तेऽष्टाङ्गसङ्ग्रहः| तन्त्रान्तराणि चोक्तानि वैषम्ये विवृतानि च||९|| आयुर्वेदं व्याचिख्यासुः श्रीवाग्भटाचार्यः प्रथमश्लोकेनेष्टदेवतां नमस्करोति-रागादिरोगानिति| स चापूर्ववैद्यः| अपूर्वत्वं च अद्भुतशक्तित्वम्| तच्च ज्वरादिविलक्षणानां रोगाणां घातेन| ते च रागादयः| शुद्धस्य चेतसो रजस्तमोभ्यां रञ्जनं रागः| तदादयस्तन्मूलाः कामक्रोधादयः| ज्वरादिविलक्षणत्वमेवाह-सततानुषक्तान्, सर्वकालमात्मना सम्बद्धान्| ननु, ज्वरादयोऽपि कुलोद्भवाः एवमित्यत आह-अशोषकायप्रसृतान्, यावन्त्यात्मनः शरीराणि तानि सर्वाण्यभिव्याप्य स्थितान्| ननु, कुलोद्भवा अपि कुष्ठार्शोमेहाद्या अनन्तव्यक्तिभेदेनैवमित्यत आह-अशेषान्, सर्वानेव युगपत्प्रतिदेहं स्थितान्| ननु, सत्कार्यवादिनां मते ज्वरादयोऽपि सूक्ष्मरूपेणैवमित्यत आह-औत्सुक्यमोहारतिदान्, औत्सुक्यम् अविचार्यकार्यप्रवृत्तिः, मोहो विचाराशक्तिः, अरतिः असन्तोषः ता ददत्यात्मनः समर्पयन्तीति तथा| औत्सुक्यादीनि स्वकार्यण्यद्भुतानि समर्पयन्तः सर्वे सर्वदेहेषु सर्वदा आत्मानं क्लेशयन्तीति ज्वरादिविलक्षणा एव रागादिरोगाः| जघानेति मोक्षशास्त्रप्रणयनेन वधोपायं दर्शितवान्| न तु स्वयं हतवन्| तथा ह्यधुना कामाद्यदर्शनं स्यात्||

The term “आयुष्कामीय अध्याय” can be translated to “chapter on longevity” in English. It refers to a section of Ayurvedic literature that focuses on promoting longevity and preventing diseases. Ayurveda is an ancient Indian system of medicine that has been practiced for over 5,000 years and draws attention to the importance of maintaining balance in the body and mind through diet, lifestyle, and Ayurvedic remedies.

अथात आयुष्कामीयमध्यायं व्याख्यास्यामः|||१||
इति ह स्माहुरात्रेयादयो महर्षयः ||२|

Click to read Sanskrit Tika
स०- अथेति| अथशब्दोऽस्मिन्मङ्गलाधिकारानन्तर्येषु द्रष्टव्यः| मङ्गलादीनां हि शास्त्राणां तदध्येतॄणां निष्प्रतिबन्धा प्रवृत्तिरभिप्रेतार्थसाधनाय जायते| अथशब्दश्चायं मङ्गलार्थः| तथा चोक्तम्-“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा| कण्ठं भित्वा विनिर्यातौ तेनेमौ मङ्गलौ स्मृतौ||”इति| अतोऽधिकारे| आयुष्कामीयं शास्त्रमधिक्रियते यावदत ऊर्ध्वं प्रतन्यते आतन्त्रपरिसमाप्तेस्तत्सर्वमायुष्कामीयं वेदितव्यम्| अत आनन्तर्ये च| नमस्कारादनन्तरमायुष्कामहितं व्याख्यास्याम इति| कथं पुनरेकस्यैव तन्त्रकारस्य व्याख्यास्याम इति बहुवचनं युज्यते| ब्रूमः| “अस्मदो द्वयोश्च” इत्येकत्वेऽपि बहुवचनविधानादभिलषन्तीति| युक्तमेवात्रैकस्मिन्नपि बहुवचनम्| आयुः शरीरेन्द्रियसत्वात्मसंयोगः| तथा च मुनिः (च. सू. अ. १|४१)-| “शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्| नित्यगं चानुबद्धं च पर्यायैरायुरुच्यते||” इति| एतीत्यायुः| सन्ततं यातीत्यर्थः| एवंविधं गत्वरस्वभावमपि हिताहारविहारसेवादिभिरहितवर्जनेन च कथमेतत् स्थिरीभवेदित्येवं कामयन्ते ये ते आयुष्कामाः| तेभ्यो हित आयुष्कामीयः| स पुनरायुर्वेदागमादिप्रकरणसमुदाय आयुष्कामयमानेनेत्यादिकः| आयुष्कामीय इति इसुसोः सामर्थ्ये इति षादेशः| तस्मै हितमिति छः| आयुष्कामीयशब्दोऽध्यायविशेषणार्थो नीलोत्पलदलवत्| बहुष्वध्यायेषु सत्सु कतममध्यायं व्याख्यास्याम आयुष्कामीयमिति| अधिकृतोऽध्यायनायेत्यध्यायस्तं व्याख्यास्यामः विविधप्रकारेण विशेषेण वा कथयिष्यामः| आयुष्कामैः पूर्वं दृष्टत्वादस्याध्यायस्यायुष्काम इति संज्ञा| अर्थगतिमधिकृत्याध्याय इति नाम| तथा चोक्तम्| (च. सू. अ. ३०|६५)- “अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता” इति| तत्र पदसमुदायो वाक्यं वाक्यसमुदायः प्रकरणं, प्रकरणसमुदायो यः, सोऽध्यायः, अध्यायसमुदायः स्थानं, स्थानसमुदायस्तन्त्रमिति| विशब्दो नानार्थः| आङभिविधौ| उत्तराख्यश्चायमलङ्कारः| तस्य हि लक्षणम्| (काव्यालङ्कारे अ, ७|९३)- “उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानां क्रियते तदुत्तरं स्यात्” इत्यादि| ततोऽनेन वाक्येन शिष्यवचनमीदृशमुन्नीयते| संसारेऽस्मिन्नमी प्राणिनो नानारोगानीकाभिभूतास्त्रातारमलभमानाश्चतुर्वर्गाद् भ्रश्यन्ते| तत्को नु भगवन्नत्रोपायः स्यादिति कृतप्रश्नो गुरुः प्रतिजज्ञे, अथात आयुष्कामीयमध्यायं व्याख्यास्याम इति| अथ शिष्यवचनानन्तरम्| अतो हेतोर्यस्मादयं शिष्यः श्रुतकुलशीलादिसंपन्नो धीमेधागुणभूषणभूतश्च| वि विविधैः प्रकारैः आ शिष्यबोधोत्पत्तेः| आयुष्कामीयमध्यायं व्याख्यास्यामो वर्णयिष्यामः| ननु कीदृशं तद्विविधप्रकारमाख्यानम्| ब्रूमः| पदतः, तदर्थतः, प्रयोजनतः, चोद्यतः, परिहारतः, सम्बन्धाभिधेयतश्च| पदतो यथा, आयुरितीदं पदम्| तदर्थतो यथा एतीत्यायुः| प्रयोजनतो यथा, अत्रैव धर्मार्थसुखसाधनम्| चोद्यतो यथा, ननु कथमेतत्केवलं धर्मार्थसुखसाधनमिति वक्तुं पार्यते| यतोऽस्यायुषः कर्मैव केवलं धर्मसाधनमिति वक्तुं नो पार्यते| यतोऽस्यायुषः परिपालनार्थं विशस्ताः काकगृध्रभासादयो राजयक्ष्मचिकित्सिते भोज्या इत्युक्तम्| अभक्ष्याश्चैते| श्रुतिस्मृत्योरभक्ष्यत्वेनोक्तत्वात्| एवमभक्ष्यभक्षणाद्धिंसया च पापयोगः| तद्योगाच्चाधर्मसाधनं न धर्मसाधनमिति| परिहारतो यथा, अत्रैवं परिहारो यज्ञाधिकारिशरीरनिमित्तं काकादीनां विशसनं भक्षणं विधीयमानं नाधर्माय| इतरथा क्रीडार्थं क्रियमाणमधर्मायैव| तथा च काकादयोऽपि तत्साधनोपयोगाद्धर्मेण तत्फलेन सम्बध्यन्ते यज्ञिया इव पशवः| तदेवमायुषो धर्मसाधनत्वं स्थितम्| सम्बन्धाभिधेयौ तूक्तावेव| ननु सन्त्येवान्यान्यपि महर्षिप्रणीतान्यायुर्वेदतन्त्राणि, किमनेन तन्त्रेण कृतेनेति| अत्र ब्रूमः| अपरतन्त्राणां सावद्यत्वादिदमुच्यते| अन्यानि हि तन्त्राणि सदोषाणि| तथा हि| यदेतत्तावद्भगवता चरकमुनिना प्रणीतं तन्त्रं रत्नाकर इव गन्भीर्यातिशययोगाद्दुर्बोधम्| तस्यापि सदोषतां प्रकटयन्ति वाचाटाः| तथा ह्यादौ तत्सूत्रम्| अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति| अत्र दीर्घञ्जीवितीय इति शास्त्रादावयुक्तम्| यतो (च. सू. अ. १ श्लो. ३) दीर्घं जीवितमन्विच्छन्नित्यस्यानुकरणं दीर्घञ्जीवितमिति| सोऽस्मिन्नध्यायेऽस्तीति छः| तस्याध्यायानुवाकयोर्लुकि सति दीर्घञ्जीवितमिति प्राप्नोति| तदिदमविदितपरमार्थशब्दस्वरूपाणां वचनम्| तथाहि| अध्यायानुवाकयोरित्यादौ सूत्रे विकल्पेन चायं लुगिष्यत इति जगाद जयादित्यः| तेन लुकः पाक्षिकत्वादत्र लुक् न भवतीत्येवं युक्तमुक्तमिदम्| दीर्घशब्देन गुणोऽभिधीयते जीवितशब्देनापि गुण एव| तस्माद्द्वयोरपि गुणत्वादाधाराधेयभावो न युक्तः, यतो गुणाश्रयो नोक्त इति| तथा च वैशेषिकाः| निर्गुणा गुणा इति| अथ कालशब्दं लुप्तस्वरूपं निर्दिश्य दीर्घजीवितीयशब्दो निर्दिश्यते तदा युक्तमेवैतत्| तथा इन्द्रियोपक्रमणीयेऽध्याये छप्रत्ययोत्पत्तिः कथमेवं विधीयतां यतोऽस्मिन्नध्याय इन्द्रियोपक्रमणशब्दो नास्त्येव| एवमपामार्गतण्डुलीयेऽपामार्गतण्डुलशब्दस्याभावाच्च प्रत्ययोत्पत्तिर्दुर्लभा| तथा दिव्याम्भसो गाङ्गसमुद्रभेदः परीक्षा च नोक्ता| प्रत्युत तत्र पठ्यते| (च. सू. अ. २७|१९१)- “जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात्| तत्पतत्पतितं चैव देशकालावपेक्षते” इति| तथा नालिकेरोदकस्य गुणा नोक्ताः| तथा, अपक्वक्वथितक्षीरस्य स्वरूपविशेषो नोक्तः| तथा कषाये कियदौषधं किमवशेषं क्वथनीयमित्यादि च नोक्तम्| मिश्रके स्नेह एवमभ्यधादसौ| “त्रिवृत्तां त्रिफलां दन्तीं दशमूलं पलोन्मितम्| चतुर्गुणं जलं दत्त्वा” इत्यादि| तदेषामौषधानां कियन्मानमपि सलिलेनैतावता कीदृशं किमुत क्वाथनिर्यासाविति| तथा क्वथितशीततोयमपि कियता पाकेन पथ्यं भवतीति नोक्तम्| मुद्गो ग्राहीति च नोक्तम्| तथा च तत्पाठः (च. सू. अ. २७|२२)-“कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः| विशदः श्लेष्मपित्तघ्नो मुद्गाः सूप्योत्तमो मतः||” इति| तथा वास्तुकादीनां लघुत्वं नोक्तम्| तथाच तत्पाठः (च. सू. अ. २७|८५)- “पाठासुषासठीशाकं वास्तुकं सुनिषण्णकम्| विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम्||” इति| तथेक्षुवर्गे, (च. सू. अ. २७|२३४)- ” शैत्यात्मसादान्माधुर्यात्पौण्ड्रकाद्वांशिको वरः” इत्यसावभ्यधात्| पौण्ड्रकश्च वांशिकाद्वर इति सुप्रसिद्धमेतत्| अत्र मतिवैभवाद्भट्टारकहरिश्चन्द्रौ व्याख्याविशेषमवोचताम्| यथा पौण्ड्रकाद्वांशिकोऽवर इति| एवं चैतदुपपन्नमेव| तदेवमात्रेयस्यापि तन्त्रे यतो बहवो दोषा उद्भाव्यन्ते, ततः का गणना तन्त्रान्तराणाम्| तथा वेदोत्पत्तिरिति संज्ञा तन्त्रेऽस्मिन्सदोषत्वान्न कृता| तथा हि| आयुषो वेद आयुर्वेदः, तस्योत्पत्तिरायुर्वेदोत्पत्तिरिति भवितव्यम्| अत्र केचिदाहुः| आयुःशब्दलोपं कृत्वेह निर्देशः कृतः| एवमपि सति लोपस्तावदमङ्गलः| सोऽप्यायुषः स च शास्त्रादौ| इत्यन्याय्यैवैषा संज्ञा| किंच वेदोत्पत्तिरित्येतदपि तावद्वक्तुं न युज्यते, नित्यत्वादस्य वेदस्य| नित्यो ह्ययमायुर्वेदः| आयुःसन्तानादिनित्यत्वात्| तथा ह्यायुःसंतानः| सर्वप्राणिसंवेद्यशरीरापरशरीरगो मनःप्रबन्धनित्यतया नित्यः| अस्य नित्यत्वादायुर्वेदोऽपि नित्यः| नित्यत्वाच्चास्योत्पत्तिमत्त्वं वक्तुमयुक्तम्| नन्ववबोधोपदेशाभ्यामुत्पत्तिरस्योपलभ्यते| यतः प्रागुपदेशान्नासावुपलभ्यते| अत उपदेशानन्तरमुपदेशद्वारेणोपलभ्यते| तस्मादवबोधोपदेशावस्योत्पत्तिकारणत्वेन कल्पयित्वोत्पत्तिमत्त्वमस्योच्यत इति कैश्चिदूचे| नैतद्युक्तम्| यतः सतो बोधोपदेशौ स्तो नासतः| तथा चाचष्टे लोकः| अमुना गुरुणा छात्रायोपदिष्टं शास्त्रमिदमिति| सत एवोपदेशावबोधौ स्तः| तस्मान्नावबोधोपदेशावस्योत्पत्तिकारणमित्यतोऽपि हेतोर्वेदोत्पत्तिसंज्ञेत्ययुक्ता| इति संज्ञानां सावद्यत्वं निरूप्य निरवद्यायुष्कामीयसंज्ञा हि तन्त्रे कृता| ययोच्चारितमात्रयैवाऽशेषस्तन्त्रार्थः प्रकाश्यते| प्रतिस्थानं च योऽध्यायः प्रथमस्तत्संज्ञया स्थानार्थः| अन्ये च येऽध्यायास्तन्त्रेऽस्मिंस्तत्संज्ञाभिर्यथास्वतन्त्रमर्थजातं प्रकाशयन्त इति| इदमिदानीं पृछ्यते तन्त्रकारः| यदस्मिंस्तन्त्रे किंचिदुच्यते स्म भवद्भिस्तत्स्वबुद्धिपरिकल्पितमुत नेत्याह| स० – इतिशब्द एवमर्थे| यथा इति ह स्म, तानाह| हशब्दोऽनुकम्पायाम्| ब्रूधातोः स्म उपपदे भूतानद्यतनपरोक्षे ‘लट् स्मे’ इति लट आहादेशः| अत्रेरपत्यमात्रेयः| ‘इतश्चानिञः’ इति ढक्| आत्रेय आदिर्येषां धन्वन्तरिप्रभृतीनां त एवम्| महान्तश्च ते ऋषयश्च महर्षयः| महत्वं तज्ज्ञानातिशययोगात्| तेनायमर्थोऽनेन कारणेनानुकम्पया, न तु फलाकाङ्क्षया, भगवन्त आत्रेयादयो महर्षयोऽब्रुवन्| नास्माभिः स्वमतिपरिकल्पितं किञ्चिदप्यत्रोक्तम्| केवलं दूतसन्देशवचनन्यायेन युगानुरूपः क्रममात्रोऽन्यथा कृत इत्यर्थः| तथा चास्यैवसङ्ग्रहे- (सू. अ. १) “न मात्रामात्रमप्यत्र किञ्चिदागमवर्जितम्| तेऽर्थाः स ग्रन्थसन्दर्भः संक्षेपाय क्रमोऽन्यथा” इति| तदेवमागमप्रामाण्यमस्य तन्त्रस्येत्युक्तं भवति| आ० र०-आयुष्कामीयमध्यायं व्याख्यातुं प्रतिजानीते अथेति| अथ स्वेष्टदेवतानमस्कारानन्तरम्| अतो हेतोर्व्याख्येयः| यतोऽयमायुर्वेदो व्याधिप्रतीकारव्याख्यानम्| आयुर्वैरिणो हि व्याधयः| व्याख्या च सामान्यविशेषाभ्यां संक्षेपविस्तराभ्यां च कृता सुग्रहा भवति| तत्रादौ व्याधिप्रतीकारस्य सामान्यसंक्षेपव्याख्यार्थमयमध्यायः, आयुष्कामहितत्वाच्च आयुष्कामीयः| नन्वेवं चेत्सर्वेऽपि आयुष्कामीयाः| सत्यं, किन्तु प्रथमोऽयमध्यायो मङ्गलार्था चेयं संज्ञा| मङ्गलादीनि च शास्त्राणि प्रथन्त इत्यस्येयं संज्ञा कृता| अन्येषां तु व्याख्येयार्थानुरूपा दिनचर्यादिसंज्ञाः करिष्यति| आ० र०- आत्मकृतिं प्रमाणयति-इति हेति| प्रामाण्यं चाप्तवाक्यत्वात्| आप्ताश्चात्रेयादयो महर्षयः| ते च, इति ह एवमेव, आहुः स्म उक्तवन्तः, यथा वयं वक्ष्यामः| तेन वयमप्याप्ताः|

The “आयुष्कामीय अध्याय” contains information on various aspects of health and wellness, including diet, exercise, meditation, and the use of herbs and spices for healing. It also provides guidelines for maintaining a healthy lifestyle and preventing disease.

Overall, the “आयुष्कामीय अध्याय” emphasizes the importance of taking a holistic approach to health and wellness, which includes physical, mental, and spiritual well-being.

Head bows before that matchless and rare (apūrva) physician (vaidya) who has completely wiped out diseases like passion (raga) that remained associated with one from the birth itself and that spread across the body, thus generating anxiety (autsukya), delusion (moha) and restlessness(arati). 1

Purpose of life: Necessary qualities to learn Ayurveda

आयुःकामायमानेन धर्मार्थसुखसाधनम्|
आयुर्वेदोपदेशेषु विधेयः परमादरः||२||

Click to read Sanskrit Tika
स०- आयुर्वेदयति ज्ञापयति प्रकृतिज्ञानरसायनदूतारिष्टाद्युपदेशादित्यायुर्वेदः| तस्योपदेशा आयुर्वेदोपदेशाः| उपदिश्यन्त आयुर्वेदार्था उपपत्तिभिरित्युपदेशा आयुर्वेदतन्त्राणि| तेषु परमादरः पाठावबोधानुष्ठानरूप उत्कृष्टो यत्नः कार्यः| आयुर्वेदोपदेशेष्विति बहुवचननिर्देशादयमर्थो बोध्यते| बहुष्वायुर्वेदतन्त्रेषु यत्नः कार्यः| अनेकायुर्वेदावलोकनाद्धि चिकित्सायां वैद्यस्य न मनागपि सन्देहो जायते| किं कुर्वता पुरुषेण-आयुः कामयमानेन जीवितमभिलषता| किम्भूतमायुः, धर्मार्थसुखसाधनम्| ध्रियते लोकोऽनेनेति धर्मः| अर्थ्यते याच्यत इत्यर्थः| सुखं द्विविधम्, तादात्त्विकमात्यन्तिकं च| तादात्विकं कियत्कालान्तरास्थायित्वात्सुखावभासं, न परमार्थतः सुखम्| तथा चोक्तम्- (च. सू. अ. २८/३७) ‘तादात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते’| इति| तदेतत्संज्ञामात्रेण सुखं न त्वत्यन्तमिति प्रदर्शयितुं सुखसंज्ञेष्विति मुनिनोक्तम्| आत्यन्तिकं सुखं मोक्षाख्यं, यत्र न दुःखानां श्लेषः| तेषां साधनमुपायो धर्मार्थसुखसाधनम्| आ० र०- प्रेक्षावत्प्रवृत्त्यर्थं प्रयोजनाधिकारिणौ दर्शयति-आयुरिति| प्रयोजनं चायुः| तस्य च प्रयोजनत्वं धर्मार्थसुखसाधनत्वात्| सुखं कामो मोक्षश्च| अत एव यः आयुः कामयते सोऽत्र अधिकारी| तेन च, आयुर्वेदोपदेशेष्वस्मद्वाक्येषु, परमत्यर्थम्, आदरो विधेयः पाठावबोधानुष्ठानैर्यतितव्यम्|

These things are required to achieve the purpose of life

  1. Dharma – following the path of righteousness
  2. Artha – earning money in a legitimate way
  3. Kama – fulfilling our desire
  4. Moksha – achieving Salvation

We shall now discuss the Chapter called “For a long life”(Ayuskāmīya), as preached by Atreya and other great sages. The realization of righteousness(dharma), wealth (artha), and happiness (sukha) depend on the long life only. Hence, persons desirous of long life should follow the lessons of Ayurveda in the highest esteem. 


ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्|
सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||३||
तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे| |४|

Click to read Sanskrit Tika
स०- ब्रह्मेत्यादि| ब्रह्मा आयुषो वेदं स्मृत्वा प्रजापतिं दक्षमजिग्रहद् अवाबोधयत्| स्मृत्वेत्यनेनैतद्गमयति ब्रह्मणः स्मर्तृत्वमेवात्र न कर्तृत्वम्| नित्यत्वादायुर्वेदस्य| नित्यत्वं चास्य प्राक् प्रत्यपादि| ग्रहेर्ण्यन्तस्यात्र बुद्ध्यर्थत्वात् प्रजापतिशब्दस्य गतिबुद्धीत्यादिना कर्मसंज्ञा| स प्रजापतिरश्विनावजिग्रहत्| तौ सहस्राक्षमिन्द्रमजिग्रहतामिति वचनविपरिणामेन सम्बन्धः| स शक्रोऽत्रिपुत्रादिकान् मुनीन् बोधयामास| अत्रिपुत्र आत्रेय आदिर्येषां धन्वन्तरिनिमिकाश्यपादीनां त एवम्| ते चात्रेयादयोऽग्निवेशादिकानजिग्रहन्| ते त्वग्निवेशादयः षट् पृथक् प्रत्येकं तन्त्राणि शास्त्राण्यग्निवेशभेडजातूकर्णपराशरहारीतक्षारपाणिनामाभिधेयानि तन्त्राणि तेनिरे विस्तारितवन्तश्चक्रुः| तन्त्र्यन्ते धार्यन्त आयुर्वेदार्था एभिरिति तन्त्राणि| आ० र०- आयुर्वेदस्य शब्दान्तरानभिधेयत्वशङ्कां निराकर्तुं पुरावृत्तं दर्शयति-ब्रह्मा स्मृत्वेति| ब्रह्मा अयुर्वेदं स्भृत्वा प्रजापतिं दक्षमजिग्रहत् ग्राहितवान्, अध्यापितवानित्यर्थः| आयुषो वेदमित्यसमासकरणमायुर्वेदलक्षणप्रतिपादनार्थम्| आयुषः सम्बन्धी वेद आयुर्वेद इति| सम्बन्धश्च पाल्यपालकलक्षणः| उक्तं हि सङ्ग्रहे (सूं अं १)-“आयुषः पालकं वेदमुपवेदमथर्वणः” इति| स प्रजापतिरश्विनावायुर्वेदमजिग्रहत्| तावश्विनौ सहस्राक्षमजिग्रहताम्| स इन्द्रोऽत्रिपुत्रादिकान् मुनीनजिग्रहत्| तेऽत्रिपुत्रादयोऽग्निवेशादिकान् मुनीनजिग्रहन्| ते पुनरग्निवेशादयः, पृथक् प्रत्येकं, तन्त्राणि शास्त्राणि, तेनिरे विरचयाञ्चक्रुः| संक्षेपार्थमायुर्वेदं शब्दान्तरैरभिदधुरित्यर्थः|

Origin of Ayurveda

Brahma, who internalized Ayurveda, taught the same to the Ashwin twins; they passed its knowledge to Indra (Sahasrākṣa), who, in turn, taught this science to Atri’s son, known as

Atreya Punarvasu or Krsna Atreya and other sages. These seers taught Ayurveda to Agnivesa and others. Agnivesa and other disciples subsequently composed separate treatises on this science. 3

Importance of Ashtanga Hridayam


तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः||४||
क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्| |५|

Click to read Sanskrit Tika
स०- तेभ्य इति| तेभ्यो ग्रन्थेभ्योऽतिविप्रकीर्णेभ्यो विक्षिप्तेभ्य उच्चावचोक्तार्थतयैवेतश्चेतश्च गतेभ्यः| अत एव कश्चिदेवार्थः कस्मादेव तन्त्रान्तराज्ज्ञायते| यथा शल्यचिकित्सा सुश्रुतप्रणीतात्तन्त्रादेवावगम्यते न तथाग्निवेशादिकात्| ऊर्ध्वाङ्गचिकित्सा च जनकप्रणीतात्तन्त्राद्यथावगम्यते न तथा सुश्रुतप्रणीतात्| अतः प्रायो बाहुल्येन सारतरोच्चयः क्रियते| उच्चीयन्ते सङ्गृह्यन्ते विक्षिप्ताः पदार्था अनेनेत्युच्चयः| यथा वा यवादीनां बहुक्षेत्रजातानामेकस्मिन् स्थाने उच्चयो राशीकृत्य स्थापनं विधीयते तथेह सारतराणामुच्चयः| सारतरग्रहणेनैतद्द्योतयति, सङ्ग्रहेणैव साराणामुच्चयः कृतः| अनेन तथा सारतराणां प्रदेशानामुच्चयः क्रियत इति| किं नाम अष्टाङ्गहृदयम्| एतच्च सान्वयार्थमस्य नाम| यथा शरीरस्य सर्वावयवेभ्यः प्रधानदेशो हि हृदयम्, तथेदमष्टाङ्गायुर्वेदस्य प्रधानभूतत्वाद् हृदयमिव हृदयम्| तथा च तन्त्रान्ते वक्ष्यति (उ. अ. ४०|८८)- हृदयमिव हृदयमेतदित्यादि| अष्टौ च तान्यङ्गान्यष्टाङ्गानि, तेषां प्रत्येकं हृदयं, सारतरसङ्ग्रहणात्| कीदृशमष्टाङ्गहृदयम्| नातिसंक्षेपविस्तरम्| संक्षेपश्च विस्तरश्च संक्षेपविस्तरौ, अतिशयेन संक्षेपविस्तरौ यत्र न, तन्नातिसंक्षेपविस्तरम्| अतिशब्दस्यात्र प्रत्येकं सम्बन्धः| अतिसंक्षेपं किञ्चित्तन्त्रं यथा सिद्धसारादि, किञ्चिच्चातिविस्तरं यथा सङ्ग्रहादि| इदं तु तन्त्रं नातिसंक्षेपविस्तरम्| अतिसंक्षेपोक्तं स्वल्पधियां नोपकृतये| तेषां हि यथोक्तागममात्रं श्रेयः, न तु वाक्यार्थपर्यालोचनादधिकः परामर्शः| अतिविस्तीर्णं तु पाठावबोधानुष्ठानैस्तेषां दुःशक्यं स्यात्| तस्मादल्पमध्योत्त्कृष्टबुद्धिशिष्यहितार्थं तन्त्रमेतदुद्दिष्टम्|

आ० र०- अग्निवेशादिशास्त्रेषु सत्स्वपि स्वशास्त्रस्योपयोगं दर्शयति-तेभ्य इति| सारतरोच्चयः क्रियते, मयेति शेषः| सारतराणां बहूपयोगानामर्थानामुच्चयः| उच्चीयन्ते एकत्र क्रियन्ते व्यस्ता अर्था अस्मिन्नित्युच्चयः| ननु पूर्वशास्त्राण्यपि महाकषायसङ्ग्रहादिषु प्रदेशेष्वेवमित्यत आह-अष्टाङ्गहृदयम्| अष्टाङ्गस्यायुर्वेदस्य हृदयं सर्वार्थाधिष्ठानम्| संज्ञाचेयमस्य शास्त्रस्य| वक्ष्यति हि (उ. अं. ४०/८८)-“हृदयमिव हृदयमेतत्सर्वायुर्वेदवाङ्मयपयोधेः” इति| सर्वेषु प्रदेशेषु सारतरोच्चय इत्यर्थः| ननु पूर्वशास्त्राण्यपि क्वचिल्लेशेन क्वचित्कार्त्स्न्येनेति सर्वत्र सारतरोच्चयरूपाणीत्यत आह-नातिसंक्षिप्तविस्तृतम्, अतिसंक्षेपातिविस्तररहितं सर्वत्र संपूर्णम्| ननु न्यूनपूरणस्य निर्मूलत्वादप्रामाण्यमित्यत आह-तेभ्यः,अग्निवेशादिशास्त्रेभ्य एवोच्चयः क्रियते| नन्वेवं चेत्किमनेनेत्यत आह-अतिविप्रकीर्णेभ्यः, यत्र प्रकरणार्थाः विच्छिद्य विच्छिद्य सर्वत्र कीर्यन्ते तानि विप्रकीर्णानि, यत्र वाक्यार्थाश्च तान्यतिविप्रकीर्णानि इति| एतदुक्तं भवति| सन्ति परं पूर्वशास्त्रेषु सर्व एवार्थाः, किन्तु अतिविप्रकीर्णत्वात् दुर्ग्रहाः| इह तु रचनाविशेषेण सुग्रहा इत्यस्योपयोगः| उक्तं च सङ्ग्रहे (सु. अ. १)-“न मात्रामात्रमप्यत्र किञ्चिदागमवर्जितम्| तेऽर्थाः स ग्रन्थबन्धश्च संक्षेपाय क्रमोऽन्यथा||” इति|

These treatises were quite intricate and not easy to learn. Hence, the essence there of has been collected and the present treatise Astanga Hridayam has been prepared. This work has been authored in a manner so that it could appear neither too concise nor too complicated. 4

Branches of Ayurveda


कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्||५||
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता|

Click to read Sanskrit Tika
स०- कायेति| कायश्च बालश्च ग्रहश्चोर्ध्वाङ्गं च शल्यं च दंष्ट्रा च जरा च वृषश्चेतीतरेतरद्वन्द्वः| ननु सर्वस्याश्चिकित्सायाः कायाश्रितत्वात् कायशब्दोऽर्थादाक्षिप्त एव| तत्किमर्थं कायशब्द उपादीयते| ब्रूमः| प्रकर्षार्थम्| यथा पुरुषाय अभिरूपाय कन्या देयेत्यत्राभिरूपग्रहणादभिरूपतमायेति प्रतिपाद्यते, तथेहापि प्रकृष्टो यः कायः सम्पूर्णधातुः प्रकृष्टा च यावस्था, तथा युक्तः| तत्सङ्ग्रहार्थः कायशब्द उपात्तः| तथा ‘चिञ् चयने’ इत्यस्माद्धातोर्व्युत्पादितः कायशब्दः| चीयते प्रशस्तदोषधातुमलैरिति कायः| तदेवं सर्वशरीरोपतापकानामामपक्वाशयस्थनोद्भवानां ज्वररक्तपित्तातिसारादीनां रोगाणां यत्रोपशमयोगो निगद्यते, तत्कायचिकित्सानामाङ्गम्| बलसत्त्वसम्पूर्णधातुत्वाद् यौवनावस्थकायस्य प्रथमनिर्देशः| बालदेहेऽसम्पूर्णबलधातुत्वादप्रकृष्टवयोवस्थाप्रभावात् तच्चिकित्साङ्गं पृथङ्निर्दिष्टम्| तथा बालौपयिकभेषजं धात्रीदुग्धलक्षणं दुग्धोद्भवव्याधिप्रशमादिनिर्देशाच्च| नन्वेवं वृद्धस्य प्रकृष्टवयोवस्थाया अभावात्तद्देहे कायचिकित्सेति कथं व्यपदेशः स्यात्| अत्र ब्रूमः| भूतपूर्वगत्या वृद्धदेहेन हि प्रकृष्टवयोवस्था पूर्वमनुभूता| अतो भूतपूर्वगत्या तत्र कायचिकित्सोपदेशो युक्तः| एवं ग्रहचिकित्सा नाम, यत्र देवादिग्रहगृहीतानां प्राणिनां शान्तिकर्म विधीयते| यत्रोर्ध्वजत्रुगतानां रोगाणांनेत्रकर्णघ्राणादिसंश्रितानामाश्चोतनशलाकादिनोपशमो वर्ण्यते तदूर्ध्वाङ्गचिकित्सानामाङ्गम्| अत्र च जन्मनः प्रभृति विचारोपदेशाद्बालचिकित्सैव प्राग्वक्तुं युक्ता| किन्तु कायचिकित्सा प्राधान्यात्प्रागुपन्यस्ता| ततोऽनन्तरं बालचिकित्सा| बालस्य च ग्रहसम्बन्धाद् ग्रहचिकित्सा| ततः शरीरस्य मूलरक्षार्थमूर्ध्वाङ्गचिकित्सा शालाक्यं नाम| ततः शस्त्रसाधनसामान्येन शल्यचिकित्सा| पीडाकरणसमानत्वात् दंष्ट्राचिकित्सा| दंष्ट्रा विषात्मिका| विषेणाशु च मरणे सम्भाव्यमाने रसायनोपयोगो युक्त इति रसायनचिकित्सा| अथवा विषस्य रसायनजेयत्वाद्रसायनकथनप्रस्तावः| ततोऽनन्तरं वाजीकरणस्य भरणेन प्रस्तावः| तथा चाधीते ग्रन्थकृत् (उ.अ.४०|१)- “वाजीकरणमन्विच्छेत्सततं विषयी पुमान् ” इति| रसायनस्य पश्चादित्यर्थः| यत्राल्पदुष्टरेतसां तदाप्यायनप्रसादोपजननरूपा चिकित्सा क्रियते तद्वाजीकरणम्| एवमेतानि कायादीनि, तस्यायुर्वेदस्य, अष्टावङ्गान्याहुर्वदन्ति| ब्रह्माऽऽत्रेयादय इति शेषः| येषु कायादिषु चिकित्सा संश्रिता व्यवस्थिता| (च.सू.अ.९|५)- ” चतुर्णां भिषगादीनां शस्तानां धातुवैकृते| प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते|” इति मुनिप्रोक्तलक्षणं नेह तन्त्रकृद्व्यधत्त| चिकित्साशब्दादेवास्यार्थस्य लब्धत्वात्| तथा च निर्देष्टुमाह| निन्दाक्षमाव्याधिप्रतीकारविचारणासु सा निष्पद्यत इति| कितेर्धातोर्व्याधिप्रतीकार एवास्य व्युत्पादितत्वात्|


आ० र०- आयुर्वेदाङ्गान्याह-कायेति| तनि च कायादीनि अष्टावाहुः| तत्र कायशब्देन सर्वावस्थं सर्वावयवं च शरीरं गृह्यते, बालादिशब्दैस्तस्यैवावस्थाविशेषा लक्ष्यन्ते| ऊर्ध्वाङ्गं त्ववयवविशेषः| बालः प्रथमं वयः, ग्रहो ग्रहार्तत्वम्, ऊर्ध्वाङ्गं शिरः, शल्यं व्रणार्तत्वम्, दंष्ट्रा विषार्तवं, शल्यदंष्ट्राशब्दौ व्रणविषमात्रोपलक्षणौ| जरा पश्चिमं वयः, वृषः स्त्रीप्रसङ्गित्वम्| एषां च कायादीनां चिकित्साश्रितानामेवाङ्गत्वमित्यत आह-चिकित्सा येषु संश्रिता इति| चिकित्सा व्याधिप्रतीकारः| अत एव कायचिकित्सा, बालचिकित्सेत्यादयोऽङ्गानां संज्ञाः| विवक्षितविवेकाच्च चिकित्साया एव ह्यङ्गत्वम्| अङ्गान्यवयवाः| तत्रावस्थामात्राश्रयाणां बालादिव्यतिरिक्तावस्थाविशेषाश्रयाणामवयवमात्राश्रयाणामूर्ध्वाङ्गव्यतिरिक्तावयवविशेषाश्रयाणां च व्याधीनां कायचिकित्सिते प्रतीकारः| बालचिकित्सादिषु तु तत्तद्विशेषैकनिष्ठानाम्| इति शास्त्रार्थेतिकर्तव्यता|

  1. Kaya Chikitsa – General medicine
  2. Bala Chikitsa – Paediatrics
  3. Graha Chikitsa – Psychiatry
  4. Urdhvanga Chikitsa – Diseases and treatment of urdhvajatru (Upper Body) Ear, Nose, Throat, Eyes and Head (neck and above region)
  5. Shalya Chikitsa – Surgery
  6. Damshrta Chikitsa – Toxicology
  7. Jara Chikitsa – Geriatrics
  8. Vrushya Chikitsa – Aphrodisiac therapy

These are the eight branches of Ayurveda.

Tridosha

वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः||६||

Click to read Sanskrit Tika
स०- वायुरिति| च समुच्चये| कफो दोषमध्ये समुच्चीयते| इत्यनेन प्रकारेण, समासतः संक्षेपात्, त्रयो दोषाः| ननु प्रस्तुतत्वादिह धातुसंज्ञया वातादयो निर्देष्टुं न्याय्याः, न दोषसंज्ञया| अस्त्येवैतत्| किन्तु रसादिदूषणपूर्वकमेषां विकारकरणे सामर्थ्यमिति प्रदर्शनार्थं दोषसंज्ञया ते निर्दिष्टाः , न धातुसंज्ञया| न ह्येते धातुरूपा जातु विरुद्धत्वं कुर्वते देहधारणवर्धकत्वात्| एते मुनिनापि चरकेण पूर्वं दोषसंज्ञयैव निर्दिष्टाः| तथा च तद्ग्रन्थः (सू.अ.१/५६)- “वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः ” इति| ‘वातपित्तकफा दोषास्त्रय एव समासतः ‘ इत्येवं निर्देशे कर्तव्ये यदेषां पृथग्विभक्त्या निर्देशः कृतः , स प्रधानत्वख्यापनार्थः| बहुवचनादेव त्रित्वे लब्धे त्रिग्रहणं नियमार्थम्| त्रय एव दोषाः , न चतुर्थोऽस्तीति| तन्त्रान्तरीया हि चतुर्थं दोषमीहन्ते| तेषां ह्ययमभिप्रायः| यथा दोषाणां स्थानलक्षणकार्यविकारचिकित्साद्युपदेशस्तथा रक्तस्यापि| तत्र स्थानं , सर्वदेहव्यापित्वेऽपि प्लीहयकृती| लक्षणं च, पद्मेन्द्रगोपहेमादीत्यादि| कार्यं, देहस्योत्पत्तिस्थिती| विकारः, विसर्पप्लीहादि| चिकित्सा, सिराव्यधादिकं कर्मेति| तदेतदसारम्| वातादयो ह्यस्य दूष्यस्य सतः कथं दोषत्वं कर्तुं पारयन्ति| यतः प्राधान्यादन्वर्थनामत्वाच्च वातादीनामेव दोषत्वं, न रसादीनाम्| वातादयो हि स्वातन्त्र्यात्प्रधानाः| दूषयन्तीति दोषा इति तेषामेव चानुगतार्था संज्ञा प्रवृत्ता| रसाद्यास्तु पारतन्त्र्यादप्रधानाः| ते च वातादिभिर्दूष्यन्त इति दूष्याः| तस्माद्रक्तस्य दूष्यत्वम्, न दोषत्वम्| यद्येवं वातादीनामन्योन्यदूषणाद् दूष्यत्वं स्यात्| पित्तेन हि श्लेष्मा दूष्यत इति दृश्यते| यथा पाण्डुरोगनिदाने (नि.अ.१३) पित्तप्रधाना इत्यारभ्य यावत् श्लेष्मत्वग्रक्तमांसानि प्रदूष्येत्यादि| तदत्र श्लेष्मा पित्तेन दूष्यते| तथा श्लेष्मवद्रक्तस्यापि दोषत्वप्रसङ्ग इति यो मन्येत, तं प्रति ब्रूमः| विषम उपन्यासः| वातादयो हि सर्वदैव रसादीन् दूषयन्ति, न तु रसादयः कदाचिदपि वातादीन् दूष्यन्ति| वातादीनां तु मध्याद्यदि कश्चिद्दूष्यते, स तेषामन्यतमेन| तथा च प्रकृतिलक्षणे वातप्रकृतेः पित्तप्रकृतेः, श्लेष्मप्रकृतेश्च यथा लक्षणं दृश्यते, नैवं रक्तप्रकृतेः| तथा च तन्त्रकारेण ज्वरादयो वातादिविशेषणविशिष्टा एवोक्ताः| यथा वातज्वरोऽयं पित्तज्वरोऽयं श्लेष्मज्वरोऽयम्, न तु रक्तज्वरोऽयमिति निर्दिष्टः| येऽपि रक्तजा विकारा विसर्पादयस्तेष्वपि घृतदग्धन्यायेन व्यपदेशो बोध्यः| यथा घृतस्यान्तर्हितेनाग्निना दग्धो घृतदग्ध इत्युच्यते, तद्वद्रक्तस्थैर्वातादिभिर्दोषैर्जातो रक्तजोऽयमित्युच्यते| यत्र क्वचिद्रक्तस्य दोषसंज्ञा कुष्ठचिकित्सितादौ दृश्यते, सा संज्ञामात्रेणैव, नासावनुगतार्था| तस्य दूष्यत्वेनैव प्रवृत्तेः| तथा चैवं पुरीषादीनामपि संज्ञामात्रेण व्यवहारो दृश्यते| यथा (हृ.चि.अ.१८|३८)- “न घृतं बहुदोषाय देयं यन्न विरेचनम्| तेन दोषो ह्युपस्तब्धः” इत्यादि| अत्र पुरीषस्य दोषत्वमुक्तम्| तथोदरचिकित्सिते चरकस्य, ज्वरचिकित्सिते वा अस्य, (हृ.चि.अ.१|१०)- “दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते| तस्मादादोषपचनाज्ज्वरितानुपवासयेत्||” इति| अत्र आमस्यापि दोषत्वमुक्तम्| तदेवं वातादयस्त्रय एव दोषाः, न रक्तमिति स्थितमेतत् समासतः| विस्तरतस्तु संसर्गसन्निपातक्षयसमताभेदभिन्नास्तारतम्यपरिकल्पनया च कल्प्यमाना आनन्त्यं यान्ति|


आ० र०- अथ प्रतिज्ञातं व्याधिप्रतीकारं व्याचष्टे| स तु त्रेधा, हेतुर्लक्षणमौषधं चेति| हेतुर्द्विधा, अन्तरङ्गो बहिरङ्गश्चेति| अन्तरङ्गो द्विधा, दोषा दूष्याश्चेति| तत्र दोषानाह-वायुरिति| ते च त्रयः, वायुः पित्तं कफश्चेति| एषां त्रित्वं च समासतः संक्षेपेण| विस्तरतस्तु प्राणादिपाचकाद्यवलम्बकाद्यवान्तरभेदप्रभेदैरानन्त्यम्| समासत इति अध्यायपरिसमाप्तेः प्रतिवाक्यं सम्बन्धनीयम्|

The three doshas are Vayu (or Vata), Pitta and Kapha.

These are the principal elements that destroy, support and maintain the body.

When these doshas are in balanced state, it maintains the body and leads to health and when abnormal, they destroy the body and leads to disease.

Tridosha avastha in a day

ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||७||

Click to read Sanskrit Tika
स०- अधश्च मध्यश्चोर्ध्वं चाधोमध्योर्ध्वानि, तानि संश्रय आश्रयो येषां तेऽधोमध्योर्ध्वसंश्रयाः| हृच्च नाभिश्च हृन्नाभी, तयोर्हृन्नाभ्योः| ते वातादयो यापिनोऽपि सर्वशरीरचरा अपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः| विशेषेणेति वाक्यशेषः| ननु किमिदं वाक्यशेषत्वं नाम| उच्यते| यस्मिन् खलु पदेऽनुच्चार्यमाणेऽर्थगतिं पश्यन्त्याचार्याः, तच्छेषमिति| उच्चारणकाले तेन विनाऽभिधेयसिद्धेः| व्याख्याकाले तु मन्दबुद्धिव्युत्पत्तये व्याचक्षते| तत्र नाभेरधो वायोः स्थानम्| हृन्नाभ्योर्मध्ये पित्तस्य| हृदयादूर्ध्वं कफस्य| ननु हृन्नाभ्योरिति कथं निर्देशो यावता प्राण्यङ्गत्वादेकवद्भावे सनपुंसकमिति नपुंसकत्वे हृन्नाभि इति प्राप्नोति| अत्र ब्रूमः| प्राण्यङ्गानां समाहार एव द्वन्द्व इत्यस्य प्रायिकत्वान्नैकवद्भावः| तदभावाच्च तदाश्रयं नपुंसकत्वं न भवति| तथा चोक्तम्| सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीति| दृश्यते चान्यत्रापि| तथा च रुद्रभट्टः (रुद्रटः काव्यालङ्कारे अ.७/८१)- – “कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते” इत्यादि| तथा, अस्यैव ग्रन्थकृतः (नि.अ.७/१९) “शिरःपृष्ठोरसां शूलं” इति| तथा, (नि.अ.१६|६) “जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु” इति| तथा, “वायुः सन्ध्यस्थिमज्जसु” इत्यादि| तस्माद्धृन्नाभ्योरिति प्रयोगो न्याय्य एव|


आ० र०-दोषस्थानान्याह-ते व्यापिन इति| तानि च त्रीणि| हृन्नाभ्योरधो वायोः स्थानं, मध्ये पित्तस्य, ऊर्ध्वं कफस्य| सर्वदेहव्यापित्वेऽपि यो यस्मिन्नाधिक्येन वर्तते तत्तस्य स्थानम्| हृन्नाभिशब्दाभ्यां तदुभयावधिप्रदेशो लक्ष्यते| अन्यथा हृदोऽप्यधो वायुर्नाभेरप्यूर्ध्वं कफस्तिष्ठेत्|


वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्||८|

Click to read Sanskrit Tika
स०-वयश्च अहश्च रात्रिश्च भुक्तं च वयोहोरात्रिभुक्तानि तेषां, क्रमाद्यथासंख्यं, ते वातादयः, अन्तमध्यादिगा भवन्ति| अन्तश्च मध्यश्चादिश्चान्तमध्यादयस्तेषु गच्छन्तीत्यन्तमध्यादिगाः| अन्यत्रापि दृश्यत इति डः| तेनायमर्थः, वयसः मनुष्यायुषः, अन्तः पश्चिमो भागः, वायोः कोपकालः| मध्यो भागः पित्तस्य| आद्यो भागः कफस्य| एवमह्नो रात्रेश्च योज्यम्| भुक्तमाहारः, तस्यान्ते जठराग्निसंयोगवशाद्रसानां जीर्णप्रायावस्था, वायोः कोपकालः| मध्यो विदाहावस्था, पित्तस्य| आद्यावस्था तु यस्यां मधुरीभाव आहारस्य, तत्र कफस्य कोपकालः| यद्यपि चाहारस्य जठराग्निसंयोगवशाद्बह्व्योऽपि सूक्ष्मा अवस्थाः सम्भाव्यन्ते, तथाप्येतासामेव सुतरामुपयोगित्वादिह निर्देशः| तथा एता एव तिस्रोऽवस्थाः स्वकर्म दर्शयन्ति| वक्ष्यति हि (शा.अ.३/५७)- – “आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्| फेनीभूतं कफं, यातं विदाहादम्लतां ततः| पित्तमामाशयात्कुर्याच्च्यवमानं, च्युतं पुनः| अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम्” इति|


आ० र०- दोषकालानाह-वय इति| तत्र वयः शरीरपरिणामः, तस्यान्तः वृद्धत्वावस्था वायोः कालः| मध्यः यौवनावस्था पित्तस्य| आदिर्बाल्यावस्था कफस्य| अह्नोऽन्तः अपराह्णः वायोः| मध्यो मध्याह्नः पित्तस्य| आदिः पूर्वाह्णः कफस्य| रात्रेरन्तोऽपररात्रो वायोः| मध्यो मध्यरात्रः पित्तस्य| आदिः पूर्वरात्रः कफस्य| भुक्तं निगीर्णमन्नम्, तस्यान्तः पक्वावस्था वायोः| मध्यो विदग्धावस्था पित्तस्य| आदिरामावस्था कफस्य| व्यापिनोऽपीत्यनुवर्तते|कालविशेषस्तु स्थानविशेषवत्|

These doshas are present all over the body. Nonetheless, they are mainly located in;

Vata – Lower portion of body (Below umbilicus part)

Pitta – Middle portion oof body (Between chest and umbilicus)

Kapha – Upper portion of body (Upto chest)

These doshas have pre-dominant roles in human life in the following manner: During the last phase of life, it is the vata that is dominant. In the middle phase of life, it is pitta and during the early phase of life, it is the kapha that remains dominant.

In the early (kapha), middle (pitta) and late (vata) phases of the day, of the night, and during the early age (kapha), middle age(pitta) and late age(vata) phases of the process of digestion of the eatable, these doshas remain predominant likewise as indicated. 7

Types of digestive fire / Agni types

Types of digestive fires/ Types of Agni
Types of digestive fires Types of Agni
Click to read Sanskrit Tika
स०- तैश्च वातादिभिः पुंसो यथाक्रमेणाग्निर्विषमस्तीक्ष्णो मन्दश्च भवेत्| वातादयश्च समुदिता एव शरीरजनने समर्थाः, इत्यवश्यं सर्वैरेव भवितव्यम्| इह तु य एकस्य व्यपदेशस्तत्रोत्कर्षो द्रष्टव्यः| वातोत्कर्षेण विषमः, पित्तोत्कर्षेण तीक्ष्णः, कफोत्कर्षेण मन्द इति| समैर्हान्युत्कर्षवर्जितैः समः| लक्षणमेषामङ्गविभागे शारीरे वक्ष्यति (शा. अ. ३/७४)- यः पचेत्सम्यगेवान्नमित्यारभ्य यावच्चिरात्पचेदिति| यत्र तु द्वयोर्दोषयोरुत्कर्षत्वं, तत्र सद्वैद्येन स्वधिया कल्प्यम्| यथा, वातपित्तयोरुत्कर्षे वायोर्योगवाहित्वात्तीक्ष्णः| एवं वातकफयोरुत्कर्षे मन्दः| कफपित्तयोस्तूत्कर्षे आहारविशेषवशात्कदाचित्तीक्ष्णः कदाचिन्मन्द इति|


आ० र०- अग्न्यवस्थाविशेषाख्यं दोषकार्यमाह-तैरिति| तत्र वातेनाग्निर्विषमो भवेत्| तीक्ष्णः पित्तेन| मन्दः कफेन| क्रमादित्यनुवर्तते| समैस्त्रिभिः समः| पारिशेष्याद्विषमादयस्त्रयो विषमैर्दोषैः| वैषम्यं च वृद्धिरेव, क्षीणानामीद्दक्कार्यादर्शनात्| अनियतपाको विषमः, आशुपाकस्तीक्ष्णः, चिरपाको मन्दः| शेषः समः| उक्तं हि सङ्ग्रहे (सू. अ. ११)-“यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे| पाकोऽग्नौ युक्तयोर्द्राक्तु तीक्ष्णे मन्दे पुनश्चिरात्” इति| युक्तयोरुचितयोः| संसर्गसन्निपातजास्त्ववस्था निदर्शनतन्त्रयुक्त्या ज्वरवदवगन्तव्याः| यथा वातकफजे ज्वरे शीतं, वातपित्तजे दाहः, वायोर्योगवाहित्वात्| पित्तकफजे सन्निपातजे च पर्यायेण दाहशीते| मिथो विरुद्धत्वेन युगपदसम्भवान्न चोभयोरभावः, विरुद्धकार्याणामप्यारम्भकत्वदर्शनात्| उक्तं च सङ्ग्रहे (सू. अ. २१)-“आरम्भकं विरोधेऽपि मिथो यद्वद्गुणत्रयम्| विश्वस्य दृष्टं युगपव्द्याधेर्दोषत्रयं तथा||” इति| तद्वदिहापि वातपित्ताभ्यां तीक्ष्णत्वं, वातकफाभ्यां मन्दत्वं, पित्तकफाभ्यां सन्निपाताच्च पर्यायेण तीक्ष्णत्वमन्दत्वे| न चैवं चतुष्ट्वहानिः, अव्यवस्थिततीक्ष्णमन्दत्वस्य वैषम्ये अन्तर्भावात्|

As regards the effects of these dosas on digestion (that is the most important aspect of metabolism), it is noted that when the vata remains dominant in one’s body, the digestive faculty remains in an unequal state. When the pitta remains dominant in the body, the digestive activity is quite sharp, and when the kapha remains dominant in one’s body, there is low digestion respectively. When there is an equilibrium among the dosas in the body, proper digestion is maintained. 8.

Ref. For discussion on this topic, the readers could also consult CS., Sū. 1/44, AH., Sa. 3/74, AS., Sū. 11 and 21.

Types of Kostha/ Digestive tracks/nature of bowels

Types of kostha/ digestive tracts / nature of bowels
Types of kostha digestive tracts nature of bowels

Kinds of the alimentary tract

Click to read Sanskrit Tika
स०-तैर्वातादिभिः, यथाक्रमं क्रूरमृदुमध्यलक्षणः कोष्ठो भवति| वातोत्कर्षेण क्रूरः| पित्तोत्कर्षेण मृदुः| कफोत्कर्षेण मध्यः| समैः पुनरेतैर्हान्युत्कर्षवर्जितैर्मध्य एव कोष्ठः| क्रूरादीनां तु लक्षणं वमनविरेचनविधौ (सू.अ.१८/३४) वक्ष्यति| ननु समैर्वातादिभिः कथं मध्यकोष्ठता स्यादिति| ब्रूमः| समानां वातादीनां मध्ये द्वयोर्वातपित्तयोः स्वं स्वं क्रूरकोष्ठत्वमृदुकोष्ठत्वलक्षणाख्यं च विरुद्धं कर्म युगपत्कर्तुं न घटते| तृतीयस्तु सम एव कफः| सोऽनयोर्मध्ये मध्यमां वृत्तिमाश्रित्य स्थितो नैकेनापि सह विरुध्यते| अत एव तत्कार्यं मध्यकोष्ठतालक्षणं ते वातपित्ते निषेद्धुं नैव घटेते| एवं च तेनावश्यमात्मीयं मध्यकोष्ठतालक्षणं कर्म कर्तव्यम्, यतो वातकर्मणः क्रूरकोष्ठतालक्षणस्य पित्तकर्मणो मृदुकोष्ठतालक्षणस्य च विरुद्धत्वात्| अतो मध्यकोष्ठतैव समैर्वातादिभिर्न्याय्या| इत्यांस्तु विशेषः| पूर्वो यो मध्यकोष्ठः सोऽवश्यं प्रमाणाधिकेन कफेन जन्यते| मध्यः स्यात्तैः समैरपीति समग्रहणलिङ्गात्| इतरस्तु मध्यकोष्ठः समदोषमध्यस्थितेन समेनैव स्वप्रमाणस्थितेन श्लेष्मणा भवतीत्यनया रीत्या हेतुभेदादन्यत्वम्| तथा मध्यकोष्ठयोर्लक्षणभेदोऽपि दृश्यते| यथा (च.सि.अ.१/८)- “श्लेष्माधिकश्छर्दयते ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्” इति| तदयमत्रार्थः| श्लेष्माधिके मध्यकोष्ठे न सम्यग् विरेचित्वं, समकफे तु मध्यकोष्ठे सुविरेचित्वमिति|


आ० र०-कोष्टावस्थाविशेषाख्यं दोषकार्यमाह-कोष्ठ इति| तत्र वातेन क्रूरः कोष्ठः स्यात्, पित्तेन मृदुः, कफेन मध्यः, त्रिभिः समैरपि मध्यः| अत्रापि पारिशेष्यं पूर्ववव्द्याख्येयम्| मध्यमेन शोधनेन हीनयोगी क्रूरः, अतियोगी मृदुः सम्यग्योगी मध्यः| संसर्गसन्निपातजास्त्ववस्थाः पूर्ववत्| योगवाहित्वं त्वत्र कफस्य| यदाह खारणादिः- “वातोल्बणा स्याद्ग्रहणी क्रूरकोष्टस्य देहिनः| पित्तला मृदुकोष्ठस्य योगवाही तयोः कफः||” इति| तेन वातकफाभ्यां क्रूरः, वातपित्ताभ्यां कफपित्ताभ्यां सन्निपाताच्च मृदुः| ननु “बहुवातश्लेष्मभ्यां क्रूरः” इति सुश्रुतेन (चि.अ,३३) बहुकफस्य क्रूरत्वमुक्तम्, इह तु मध्यत्वम्, इति विरोधः|मैवम्, सुश्रुतवाक्यस्य संसर्गपरत्वात्|

There are three types of the nature of alimentary tract (Kostha): It is hard (krura) when the body is dominated by vata. It is soft (mrdu), when the body is dominated by pitta and it is moderate or medium (madhya) when the body remains dominated by kapha. If there is an equilibrium of all three doshas, the kostha functions on a medium (Madhya) scale. 8

Types of Prakruti – Body Types

Types of Prakruti – Body Types
Types of Prakruti – Body Types
Click to read Sanskrit Tika
स०-तैश्च वातादिभिस्तिस्रः प्रकृतयः पृथग्भवेयुर्हीनमध्योत्तमाः| प्रकृतिः शरीरस्वरूपम्| शुक्रार्तवस्थैरिति, शुक्रं पितुर्द्वित्रिबिन्दुकावस्थं रेतः| ऋतौ भवमार्तवम्, मातुर्द्वित्रिबिन्दुकावस्थं शोणितम्| शुक्रं चार्तवं च शुक्रार्तवे, तत्र तिष्ठन्तीति शुक्रार्तवस्थाः, तैस्तथाविधैर्जन्मादौ गर्भाधानकाले जन्मप्रारम्भे गर्भादावित्यर्थः| ननु च यदा वातादयोऽधिकाः शुक्रार्तवे तिष्ठन्ति, तदा कुतः शरीरस्य निष्पत्तिर्भवतीति| यतश्च यो दोषाणामधिको भावः सैव विकृतिः| तत्कथं दोषा आधिक्यं प्राप्ताः प्रकृतेः कारणतामुत्सहन्ते, विकृतत्वात्| न हि विकृतिः कदाचित्प्रकृतेः कारणमिति वक्तुं युज्यते| कारणसदृशेन च कार्येण भवितव्यमित्याशंक्य सपरिहारं दृष्टान्तमाह| विषेणेव विषक्रिमेरिति| यथा विषेण जीवितनाशहेतुनास्य विषक्रिमेर्जन्म प्रकृतेः सम्भवो दृश्यते| तथा एतैर्दूषणस्वभावैरपि प्रमाणाधिकैर्दोषैः शुक्रार्तवस्थैरेव जन्मादौ शरीरस्य निष्पत्तिर्भवतीति| वातोत्कर्षेण हीना| पित्तोत्कर्षेण मध्यमा| कफोत्कर्षेणोत्तमा| सर्वासु प्रकृतिषु मध्ये या समधातुः प्रकृतिः, सा समा श्रेष्ठोत्तमा चतुर्थी| समा धातवो यस्याः| धातुशब्दोऽत्र दोषपर्यायः, “धारणाद्धातवः” इति (सं.सू.अ.२०) वचनात्| या वातपित्तजा वातश्लेष्मजा पित्तश्लेष्मजा इति मिश्रदोषजास्तिस्रः प्रकृतयस्ता निन्द्या गर्हणीयाः, अनारोग्यास्पदत्वात्|


आ० र०-देहजन्माख्यं दोषकार्यमाह-शुक्रार्तवस्थैरिति| तच्च जन्म शुक्रार्तवस्थैर्दोषैर्भवेत्| शुक्रेण युक्तमार्तवं शुक्रार्तवं, तत्र तिष्ठन्तीति तत्स्थाः| शुक्रं पुंरेतः, स्त्रीरेतसो जन्माहेतुत्वात्| (उक्तं हि सङ्ग्रहे (शा. अ. १)-“योषितोऽपि स्रवन्त्येव शुक्रं पुंसः समागमे| गर्भस्य तु न तत्किञ्चित्करोतीति न चिन्त्यते||” इति| आर्तवं स्त्रीरजः|कदा, आदौ जीवसङ्क्रमणसमये| उत्तरकालजैस्तु दोषैरविकृतैः स्थितिः, विकृतैर्नाशः| तदुक्तं “विकृता देहं घ्नन्ति ते वर्तयन्ति च” इति| ये त्वादौ शुक्रार्तवस्थाः,तैर्विकृतैरपि जन्म भवति| किन्त्वविकृतैरविकृतशरीरत्वं, विकृतैर्विकृतशरीरत्वमिति विशेषः| वक्ष्यति हि (शा. अ. १/६)-“वियोनिविकृताकारा जायन्ते विकृतैर्मलैः” इति| ननु विकृतैर्नाशहेतुभिः कथं जन्मेत्यत आह-विषेणेव विषक्रिमेरिति| विषात्मकस्य क्रिमेर्नाशहेतुनापि विषेण जन्म यथा, तथा दोषात्मकस्य शरीरस्य नाशहेतुभिरपि दोषैरित्यविरोधः|

प्रकृतिविशेषाख्यं दोषकार्यमाह-तैश्चेति| तैर्जन्महेतुभिर्दोषैः, प्रकृतयश्च स्युः| ताश्च सप्त| तत्र पृथग्भूतैर्दोषैस्तिस्रः| वातेन हीना, पित्तेन मध्या, कफेनोत्तमा| समधातुश्चतुर्थी| सा समस्तासु श्रेष्ठा गुणैः पूर्णा सत्त्वगुणप्रधाना उत्तमाया अप्युत्तमा| धातवो दोषाः| द्विदोषजास्तिस्रः, समस्तासु निन्द्याः, हीनाया अपि हीनाः| तत्रापि पित्तकफजा हीना, ततो वातकफजा, ततोऽपि वातपित्तजेत्यूह्यम्| यद्यपि वातकफयोः परस्परयोगवाहित्वं, तथापि वातकार्यं भवतीति वचनात्| तदुक्तम् (हृ.शा.अ.३/८४)- “बलित्वादाशुकारित्वाद्विभुत्वादन्यकोपनात्| स्वातत्र्याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः||” इति| ता द्विदोषजा निन्द्याः, विरुद्धोपक्रमत्वादुपदेशाच्च| उपदेशस्त्वतिदेशस्य बाधको भवति| ननु, वायोर्योगवाहित्वात् वातपित्तजवातश्लेष्मजप्रकृत्योर्मध्योत्तमत्वे प्राप्ते कथं निन्द्यत्वम्| उच्यते| योगवाहित्वेऽपि प्रकृतौ स्वकार्यकारित्वमुपदेशबलाद्भवति| तथा च सुश्रुतः (शा.अ. ४)- “सप्तप्रकृतयो भवन्ति दोषैः पृथग् द्विशःसमस्तैश्च|” तथा, “द्वयोर्वा तिसृणां वापि प्रकृतीनां स्वलक्षणैः| ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरिति निर्दिशेत्” इति| तथा च वक्ष्यत्यग्रे (हृ.शा.अ. ३/१०४)- “प्रकृतीर्द्वयसर्वोत्था द्वन्द्वसर्वगुणोदये| शौचास्तिक्यादिभिश्चैवं गुणैर्गुणमयीर्वदेत्” अत्र पारिशेष्यात् एकैकस्याधिकत्वेनारम्भकत्वं, त्रयाणां साम्येन, तच्चाधिकत्वेनोपक्रमात्| तथा च सुश्रुतः (शा.अ. ४)-“शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः| प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणू”| तथा च वक्ष्यति (हृ.शा.अ. ३/८३)-“शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयर्तुषु| यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता” इति| यद्वा, समैर्वा जायते त्रिभिः समधातुरिति| ततो वातपित्तजे तूह्ये| तत्र श्रेष्ठा गुणैः पूर्णा| उत्तमादयस्तु क्रमात् न्यूनाः, दोषवैषम्यात्पारिशेष्याच्च|

What is Prakruti in Ayurveda?

Prakruti is a Sanskrit term that refers to the unique body constitution of an individual. According to Ayurveda, the ancient Indian system of medicine, every person has a unique combination of three doshas or biological energies – Vata, Pitta, and Kapha – that determine their physical, mental, and emotional traits. These doshas are present in varying degrees in each individual, resulting in different body constitutions or Prakruti.

Tridoshaja Prakruti

Vata Prakruti

Vata Prakruti is characterized by the predominance of the Vata dosha, which represents movement and change in the body. Individuals with Vata Prakruti tend to be thin, light, and agile, with a tendency towards dryness and coldness. They are creative, enthusiastic, and quick to learn but can also be anxious, restless, and forgetful. Vata Prakruti individuals benefit from warm, nourishing foods, calming activities, and regular routines to balance their Vata dosha.

Pitta Prakruti

Pitta Prakruti is characterized by the predominance of the Pitta dosha, which represents metabolism and transformation in the body. Individuals with Pitta Prakruti tend to be medium-built, with a tendency towards heat and acidity. They are intelligent, ambitious, and confident but can also be critical, irritable, and perfectionistic. Pitta Prakruti individuals benefit from cooling, hydrating foods, moderate exercise, and stress-management techniques to balance their Pitta dosha.

Kapha Prakruti

Kapha Prakruti is characterized by the predominance of the Kapha dosha, which represents structure and stability in the body. Individuals with Kapha Prakruti tend to be heavy-set, with a tendency towards coldness and sluggishness. They are calm, compassionate, and loyal but can also be possessive, stubborn, and resistant to change. Kapha Prakruti individuals benefit from light, warm foods, invigorating activities, and regular detoxification to balance their Kapha dosha.

Qualities of Vata Dosha / Vata Dosha Lakshana

Qualities of Vata Dosha / Vata dosha Lakshana
Click to read Sanskrit Tika
स०-तत्रेति निर्धारणे| तत्र तेषु दोषेषु मध्ये, अनिलो वायुः, रूक्षो, लघुः, शीतः, खरोऽमृदुः, सूक्ष्मः स्रोतःप्रचारित्वात्, चलो गमनशीलो नैकत्र तिष्ठतीति| नन्वनुष्णाशीतो वायुः काणादैः पठितः| इहापि योगवाह्यनुज्ञानादनुष्णाशीत एवेष्यत इति| तथा चोक्तम् (च.चि.अ.३/३८)- “योगवाही परं वायुः संयोगादुभयार्थकृत्| दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रया” इति| तथा (हृंइ.अ.२/४८)- “पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्| दाहः पित्तयुते” इति| उच्यते| सत्यमेतदनुष्णाशीत एव वायुः| तस्य योगवाहित्वेऽपि तावन्मात्राद्दाहोदयाच्छैत्यं स्वाभाविकं न विनश्यति| शीतगुणव्यावर्णने चेदं प्रयोजनमुष्णेनायमुपशाम्यतीति प्रतिपत्त्यर्थम्|


स०-सस्नेहमीषत्स्निग्धम्| सशब्द ईषदर्थे| यथा (च.सू.अ.२७/२३७)- “सतिक्ता या सशर्करा”| एवमीषत्स्नेहो यस्य तत्सस्नेहम्| तीक्ष्णं शीघ्रकारि मन्दविपरीतं सूचीव भिनत्ति| उष्णम्| लघु| विस्रं दुर्गन्धि मत्स्यामगन्धि| सरं व्याप्तिशीलं सरणशीलमूर्ध्वाधः प्रवर्तते न स्थिरमास्ते, शकृद्विस्रंसि वा| द्रवं च|

स०-स्निग्धगुणयोगात्स्निग्धः| शीतोऽनुष्णः| गुरुर्लघुर्न भवति| मन्दश्चिरकारी, तीक्ष्णविपरीतः| श्लक्ष्णोऽपरुषः| मृत्स्नो मृद्यमानोऽङ्गुलिग्राही पिच्छिलगुणयुक्तः चकचकायमानः| स्थिरोऽव्याप्तिशीलः| एवं तद्गुणयोगात् गुणगुणिनोरभेदोपचाराद्वातादयो गुणतो निर्दिष्टाः|


आ० र०-वायोर्गुणानाह-तत्र रूक्ष इति| ते च रूक्षादयः षट्|

आ० र०- पित्तगुणानाह-पित्तमिति| ते च सस्नेहादयः सप्त| सस्नेहमीषत्स्निग्धम्| सशब्द ईषदर्थे| विस्रं दुर्गन्धि|

आ० र०-कफगुणानाह- स्निग्ध इति| ते च स्निग्धादयः सप्त| मृत्स्नः पिच्छिलः|

The properties of vata dosha are dryness ruksha, coldness shita, roughness khara, subtleness suksma and movement chala.

Qualities of Pitta Dosha

Qualities of Pitta Dosha
Qualities of Pitta Dosha

Pitta is slightly unctuous (sasneha), capable of penetrating deep (tiksna), hot, heat-producing (ushna), light in weight (laghu), bad in smell (visra) is free flowing (sara) and liquid (drava).

Qualities of Kapha Dosha

Qualities of Kapha Dosha
Qualities of Kapha Dosha

Kapha is unctuous (snighdha), cold (Shita), heavy (guru), slow in action (manda), smooth (slakshana), slimy (mrtsna) and stable (sthira).

samadosha samsara and sannipata dosha
samadosha samsara and sannipata dosha
Click to read Sanskrit Tika
स०-एतदुक्तं भवति| द्वयोः स्वप्रमाणाधिकयोः क्षीणयोर्वा संयोगः संसर्गः| त्रयाणां दोषाणां वृद्धानां क्षीणानां वा संयोगः सन्निपातः|


आ० र०- अवस्थाविशिष्टसंयोगनिमित्तं दोषसंज्ञाद्वयमाह-संसर्ग इति| तच्च दोषसंज्ञाद्वयं संसर्गः सन्निपातश्चेति| तत्र द्वयोर्दोषयोः क्षीणयोः कुपितयोर्वा यः संयोगः, स संसर्गः| त्रयाणां सन्निपातः| इति द्वित्वत्रित्वयोः संसर्गसन्निपाताभ्यां यथासंख्यं सम्बन्धः, न तु क्षयकोपाभ्याम्| यतो दोषभेदीये संसर्गस्यापि वृद्धिभेदान् सन्निपातस्यापि क्षयभेदान् वक्ष्यति| इति दोषव्याख्या|

The combination of any two dosas, when both are in their decreased and increased states, is known as samsara, while sannipata means the combination of all the three dosas. 11-12

Dushya : Dhatu and Mala : Body tissues and waste products

Body tissues and waste products
Body tissues and waste products
Click to read Sanskrit Tika
स०-रसादयः सप्त धातुसंज्ञाः शरीरधारणाद्धातवः| ते च दूष्याः, वातादिभिर्दूष्यन्त इति दूष्याः| यस्माद्वातादीनां दूषणस्वभावत्वाद्या दोषसंज्ञा, सान्वर्थसंज्ञा| दूषयन्तीति दोषाः| अतोऽवश्यं ते दूष्यमपेक्षन्ते| कर्म विना कर्तुः क्रियाया असम्भवात्| कर्तारं विना कर्मणो न कर्मत्वम्| एवं दोषैर्विना रसादीनां दूष्यनाम न घटते| तैर्विनाऽपि वातादीनां दोषनाम| तस्मात्परस्परापेक्षत्वादनयोर्दूष्यदोषयोर्दूष्यत्वेन दोषत्वेन च संज्ञालाभः|


आ० र०- दूष्यापरनामधेयान् धातून् मलांश्चाह-रसासृगिति| रसादयो ये सप्त धातवः, ते दूष्याः|

स०- मूत्रशकृदादयो मला उच्यन्ते| अपिचेतिशब्दाद् दूष्याश्चेति|  केवलं रसादय एव दूष्याः, यावन्मलास्तेऽपि वातादिभिर्दूष्यन्त इति दूष्याः| एवं  रसादीनां दूष्यसंज्ञा धातुसंज्ञा च| तथा विण्मूत्रादीनां मलसंज्ञा दूष्यसंज्ञा च| इति दोषधातुमलनिर्देशेन देहो व्याख्यातः| तथा चोत्तरग्रन्थे (सू.अ.११/१)- “दोषधातुमला मूलं सदा देहस्य” इति|

तस्य  देहस्य यथा सन्ततं केनचिदुपायेन परिपालनं निष्पद्यते, तमुपायं दर्शयितुमाह-


आ० र०- मूत्रादयो ये सप्त मलास्तेऽपि  दूष्याः| मूत्रशकृती अन्नमलौ, स्वेदो मेदोमलः, आदिशब्दात् मांसास्थिमज्जशुक्रमलाः| वक्ष्यति हि (शा.अ. ३/६३)- “कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||” इति| कफपित्तयोर्दोषत्वान्न दूष्यत्वम्| सङ्ग्रहे तु (सू.अ. १)-“रसादिस्थेषु दोषेषु व्याधयः सम्भवन्ति ये| तज्जा इत्युपचारेण तानाहुर्घृतदाहवत्||” इति| इति दूष्यव्याख्या| इत्यन्तरङ्गो हेतुः|

Body tissues and waste products are called Dushyas. This means the one that can be affected by Three doshas and cause disease.

SAPTA DHATU :

  1. Rasa – is the first after digestion of the food, which can be correlated with plasma (Body Fluids.)
  2. Rakta – Also called as Asruk. – Blood
  3. Mamsa – Muscle
  4. Meda – Fat tissue
  5. Asthi – Bones and cartilages
  6. Majja – Bone marrow
  7. Shukra – Semen / Ovum. According to Ayurveda, Shukra is present all over the body.

THREE MALA :

Mala – waste products

Mootra (urine), Pureesha – (faeces), and Sweda (sweat) are the three waste products of the body.

The nourishment of the body

The nourishment of the body
The nourishment of the body
Click to read Sanskrit Tika
स०- सर्वेषां दोषधातुमलादीनां शरीराश्रितानां, समानैस्तुल्यसद्भावैः, वृद्धिः स्वप्रमाणाधिक्यम्| विपरीतैर्विशिष्टतया व्यवस्थितैः, विपर्ययः क्षयः| अयनं अयः गतिः, विपरीता गतिर्विपर्ययोऽपचयः| सामान्यविशेषैर्द्रव्यगुणकर्मभेदेन त्रिप्रकारोऽधिगच्छति| तथा चाहुः- “सर्वेषां सर्वदा वृद्धिस्तुल्यद्रव्यगुणक्रियैः| भावैर्भवति भावानां विपरीतैर्विपर्ययः”| द्रव्यतो यथोक्तम् (सं.सू.अ.१९)- “रक्तमाप्याय्यते रक्तेन, मांसं मांसेन, मेदो मेदसा, अस्थि तरुणास्थ्ना, मज्जा मज्ना, शुक्रं शुक्रेण, तथा गर्भश्चामगर्भेण”| तत्र रक्तेन रक्तमित्युभयमप्यौदकम्| मांसेन मांसमिति पार्थिवम्| तथा, सलिलात्मकं पयस्तदात्मकमेव श्लेष्माणमभिवर्धयति| तद्वत्क्षीरजातं घृतं शुक्रम्| तथा जीवन्तीकाकोल्यादयः सोमात्मानो द्रव्यविशेषाः सौम्यधात्वेककारणानि स्नेहबलपुंस्त्वौजांसि| मरीचपञ्चकोलभल्लातकादयो बुद्धिमेधाग्न्यादीन् संवर्धयन्ति| गुणतः- चोचमोचखर्जूराणि पार्थिवानि द्रव्यतो निर्दिष्टान्यपि श्लेष्माणमुदकात्मकमभिवर्धयन्ति, स्निग्धगुरुशीतादिगुणसामान्यात्| कर्मापि त्रिविधं कायवाङ्मनोव्यापारात्मकम्| तत्र कायिकानि- धावनलङ्घनप्लवनादीनि चलत्वसामान्याद्वायोर्वृद्धये| वाचिकानि–भाष्याध्ययनगेयादीनि, मानसानि-मनोव्यापाराश्चिन्ताकामशोकभयानि, तान्यपि मनसः क्षोभणहेतुत्वाद्वायोर्वृद्धिकराणि| तथा सन्तापकृत्त्वसामान्यात्क्रोधेर्ष्यादि पित्तस्य| स्वप्नालस्यशय्यासुखादीनि स्थैर्यसामान्यात्कफस्येति| विपर्ययस्तु क्षयाय| यथाह| द्रव्यतः (सं.सू.अ.१४, च.सू.अ.२५)- “गवेधुकान्नं कर्शनीयानाम्”| तत्र वातात्मिकया गवेधुकया पार्थिवानां मांसादीनां क्रशिमा क्रियते| तथा तैजसेन क्षारेण श्लेष्मणः| गुणतो यथा- आरनालमौदकं श्लेष्माणं तद्विपरीतैर्लघुरूक्षोष्णतीक्ष्णविशदगुणैः क्षपयति| कर्मतः- निद्रालस्यसौमनस्यानि सपरिस्पन्दं वातमपरिस्पन्दस्वभावतयाऽपचिन्वन्ति| तथा परिस्पन्दरूपाश्चिन्ताव्यवायव्यायामा मन्दपरिस्पन्दवैपरीत्यात्कफमिति|


आ० र०- अथ बहिरङ्गं व्याचष्टे-दोषदूष्यविकृत्युत्पादनद्वारेण यो व्याधीनां कारणं, स बहिरङ्गः| स च द्वेधा, वृद्धिहेतुः क्षयहेतुश्च| तत्र वृद्धिहेतुमाह-वृद्धिरिति| सर्वेषां दोषदूष्याणां समानैस्तुल्यधर्मकैर्द्रव्यैर्वृद्धिर्भवेत्| यथा रूक्षादिगुणस्य वायोः, तत्समानगुणं श्यामामाकादि वर्द्धनम्| सस्नेहादिगुणस्य पित्तस्य तैलादि| स्निग्धादिगुणस्य कफस्य क्षीरादि| दूष्येशु स्वेदरक्तयोः पित्तवत् वृद्धिहेतुः| शेषाणां श्लेष्मवत्| वक्ष्यति हि (सू.अ. ११/२६)-“तत्रास्थनि स्थितो वायुः पित्तं तु स्वेदरक्तयोः| शेल्ष्मा शेषेषु तेनैषामाश्रयाश्रयिणां मिथः|| यदेकस्य तदन्यस्य वर्द्धनक्षपणौषधम्| अस्थिमारुतयोर्नैवम्|” इति| क्षयहेतुमाह- विपरीतैरिति| सर्वेषां दोषदूष्याणां विपरीतैर्विरुद्धधर्मकैर्द्रव्यैर्वृद्धेर्विपर्ययः क्षयो भवेत्|यथा- वायोर्गोधूमदि क्षपणम्| पित्तस्य यवादि| कफस्य कुलत्थादि| दूष्येषु पूर्ववत्|

Use or intake of similar (Samana) and dissimilar (vipanta) properties result in the
increase or decrease of all dosas, dhatus and malas. 13
Ref. The above passage has been quoted verbatim from AS., Su. 1/32. For a comparative
analysis of this topic, the readers could also consult CS., Su. 1/44.

Shad Rasa : Six Tastes

 Six tastes/ Shad Rasa
Six tastes Shad Rasa
Click to read Sanskrit Tika
स०- स्वाद्वादयः षड्रसाः, रसनेन्द्रियग्राह्यत्वाद्रसाः| ते च रसा द्रव्यं पञ्चभूतात्मकमाश्रिताः, यथापूर्वं च बलावहाः| यो यः पूर्वो यथापूर्वं, बलावहा बलप्रापकाः| बलमावहन्ति प्रापयन्तीति यावत्| तस्मात्सर्वेभ्यो रसेभ्यो मधुरो रसः प्रकर्षेण देहिनां बलकरः| कषायस्तु सर्वेभ्यो जघन्यबलावहः| तत्र स्वादुर्मधुरो घृतगुडादिः| अम्लोऽम्लिकामातुलुङ्गादिः| लवणः सैन्धवादिः| तिक्तो भूनिम्बादिः| ऊषणः कटुको मरीचादिः| कषायो हरीतक्यादिः| स्वादुर्मधुरपर्यायः| ऊषणः कटुकपर्यायः| यथा त्र्यूषणं त्रिकटुकमुच्यते| कषाय एव कषायकः, यथा कटुरेव कटुकः| षडिति षडेव, न न्यूना अधिका वा| यद्यपि ते रसा गुणाः स्वाद्वादिभेदतस्तथा संसर्गतस्तथाऽनुरसतस्तारतम्यपरिकल्पनावशतोऽपि भिद्यमानरूपा अपि षट्त्वं नातिवर्तन्ते|


आ० र०- अथ साधर्म्यवैधर्म्यज्ञानार्थं द्रव्यधर्मानाह-ते च रसप्रभाववीर्यविपाकगुणभेदात्पञ्च| तत्र रसनाग्राह्यो रसः| शेषो गुणः| कायाग्निपाकजो विशिष्टो रसो विपाकः| तथैवोत्पन्नो गुणो वीर्यम्| द्रव्यस्यात्मा प्रभावः| तत्र रसभेदानाह-रसा इति| ते च स्वाद्वादयः षट्| स्वादुर्मधुरः, ऊषणः कटुकः| ते च द्रव्यमाश्रिताः, द्रव्यधर्मा इत्यर्थः| क्षारस्य द्रव्यविशेषवाचित्वाद्रसविशेषवाचित्वेऽपि लवणविशेषवाचित्वान्न सप्तमरसत्वम्|

बलावहाख्यं रसकर्माह-ते चेति| ते च रसा यथापूर्वं बलावहाः| यो यस्मात्पूर्वः स तस्मादधिकं बलमावहति| यो यस्मात्पूर्वः स तस्मादधिकं बलमावहति| कषायो बल्यस्तत ऊषणस्ततस्तिक्त इत्यादि|

The six varieties of tastes are as follows:

1. sweet (svadu),

2. sour (amla),

3. salty(lavana),

4. bitter (tikta),

5. pungent (usna)

6. astringent (kasaya).

Each one of the above is more strengthening to the body in their order of precedence. Thus, the sweet taste is the most overwhelming, while the astringent taste is the least powerful.

Effect of Rasa on Tridosha

 Effects of Rasa on dosha
Effects of Six tastes/ Shad Rasa on dosha
Click to read Sanskrit Tika
स०- तत्र तेषु रसेषु मध्ये, आद्यास्त्रयः स्वाद्वम्ललवणाः, मारुतं घ्नन्ति शमयन्ति| अन्ये तु तिक्तोषणकषायास्तमेव चानिलं कुर्वते कोपयन्ति| तिक्तादयस्त्रयस्तिक्तोषणकषायाः कफं घ्नन्ति प्रशमयन्ति| अन्ये तु मधुराम्ललवणास्तमेव कफं कुर्वते| कषायतिक्तमधुराः पित्तं घ्नन्ति| अन्ये त्वम्ललवणकटुकास्तदेव पित्तं कुर्वते| एतेनेदमुक्तं भवति| मधुरो वातपित्तघ्नः श्लेष्मकरः| अम्लो वातं हन्ति, कफपित्ते तु जनयति| लवणो मारुतं हन्ति, कफपित्ते तु कुरुते| तिक्तः कफपित्ते नाशयति, वातं तु जनयति| ऊषणः कफं नाशयति, वातपित्ते तु जनयति| कषायः कफपित्ते हन्ति, वातं तु करोतीति|


आ० र०- वातादीनां साक्षाद्रसाकथनादस्पष्टे दोषद्रव्ययोः साधर्म्यवैधर्म्ये स्पष्टयति-तत्राद्या इति| तत्र तेषु रसेषु मध्ये, आद्यास्रयो रसाः स्वाद्वम्ललवणाः, मारुतं घ्नन्ति| तिक्तादयस्तिक्तोषणकषायाः कफं घ्नन्ति| कषायतिक्तमधुराः पित्तं घ्नन्ति| अन्ये तु कुर्वत इति त्रिष्वपि योज्यम्| तेन तिक्तोषणकषाया वायुं कुर्वन्ति| स्वाद्वम्ल लवणाः कफम्| अम्ललवणकटुकाः पित्तम्| अत एव ते ते रसास्तत्र तत्र सन्तीत्यनुमेयम्| उक्तं च कपिलेन-“कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः| कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः||” इति|

Alleviation of doshas by the tastes
The vata dosa is alleviated by the first three tastes as appearing in above order: svadu, amla and lavana. The kapha dosa is actuated by the kasaya, tikta and madhura tastes. Pitta dosha is subsided by kashaya, tikta and madhura rasa.

एषां च रसानामाश्रयो द्रव्यं, तच्च त्रिप्रकारमित्याह

शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||१६||

Click to read Sanskrit Tika
स०- इति अनेन प्रकारेण शमनादिभेदेन, त्रिधा त्रिप्रकारं, द्रव्यम्| अन्येन प्रकारेण द्विधा अथवा अनेकधा| इतिशब्दः प्रकारार्थेऽभिहितः| यत् कुपितान् वातादीन् दोषान् शमयति, तच्छमनम्| यथा- तैलं घृतं माक्षिकम्| तत्र तैलं स्नेहौष्ण्यगौरवयोगाद्वातं तद्विपरीतगुणं शमयति| सर्पिर्माधुर्यशैत्यमान्द्यगुणयोगात्तद्विपरीतगुणं पित्तम्| मधु च रौक्ष्यतैक्ष्ण्यकषाययोगात्तद्विपरीतगुणं कफम्| यद्वातादीन् दोषान् रसादीन्धातून् मूत्रादीन्मलांश्च कोपयति, तत्कोपनम्| यथा- यवकपाटलभाषमत्स्याममूलकसार्षपमन्दकदधिकिलाटविरुद्धमत्स्यपयः प्रभृति| दोषादीनां मलपर्यन्तानां स्वप्रमाणस्थितानां साम्यानुवृत्तिहेतुर्यद्द्रव्यं तत् स्वस्थेभ्यो हितम्| यच्च स्वास्थ्यानुवृत्तिं करोति, ऋतुचर्याध्याये सेव्यत्वेनोक्तम्| तथा मात्राशितीयाध्याये रक्तशालिषष्टिकयवगोधूमजाङ्गलमांसजीवन्तीशाकदिव्योदकक्षीरादि| तथा यदूर्जस्करं रसायनवाजीकरणं सर्वदा शीलनीयत्वेन निर्दिष्टम्|


आ० र०- प्रभावभेदानाह- शमनमिति| प्रभावो रसादिष्वन्तरङ्ग इति द्योतयितुं द्रव्यशब्देनोक्तः, द्रव्यमिति त्रिधेति| शमनं कोपनं स्वस्थहितं चेति त्रैविध्यम्| यद् द्रव्यं समैः समविपरीतैर्वा रसादिभिर्युक्तमपि वातादीन् शमयति तच्छमनम्| तद्यथा-मधुरशीतापि जीवन्ती कफं शमयति| कटुपाकरसो गुरुः स्निग्धोऽपि रसोनः कफवातौ| यद् द्रव्यं विपरीतैः समविपरीतैर्वा रसादिभिर्युक्तमपि वातादीन् कोपयति तत्कोपनम्| यथा-गुरूष्णस्निग्धमधुरमपि फाणितं वातं कोपयति| तैरेव गुणैर्माषः पित्तकफौ| यद् द्रव्यं वातादीनां क्षयवृद्ध्योर्हेतुरपि स्वस्थस्य न तथा, तत्स्वस्थहितम्| यथा-गुरुमधुररूक्षशीतोऽपि यवः स्वस्थस्य पित्तं न क्षपयति| गुरुमधुरस्निग्धशीतमपि क्षीरं स्वस्थस्य कफं न कोपयति| एवं सर्वत्रापि प्रभाव उदाहरणीयः| वक्ष्यति च (सू.अ. ९/२६)-“रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम्|” इति| अन्ये तु शमनादीन् द्रव्यभेदानाहुः| तत्तु न सम्यक्| द्रव्यभेदत्वे यदेव शमनं, तदेव कोपनं तदेव स्वस्थहितमिति सङ्करो न युक्तः| धर्मभेदत्वे तु रसादिसङ्करवद्युक्तः| किञ्च द्रव्यभेदाश्वेदमी तदा रसादिधर्मभेदानां प्राक्पश्चाद्वा अभिधेयाः स्युः, न मध्ये| तस्मात्प्रभावभेदा एव शमनादयः|

Trividha dravya

All the substances, such as the eatable, herbs and the like, are divided into three catego­ries viz.

(i) Those which actuate the dosas are the ones known as the samana,

(ii) those which provoke the dosas are the ones known as the kopana,

(iii) those that are helpful
for health are the ones known as the svasthahita. The dravyas under the last category above
are suitable for health, and they help one keep good health. 16

Types of Potency (Veerya) / Dwivisha virya
Types of Potency Veerya Dwivisha virya
Click to read Sanskrit Tika
स०- तत्र तस्मिन् द्रव्ये, वीर्यं द्विविधम्| विंशतेर्गुणानां मध्याद्द्वावुष्णशीतौ, तदुत्कर्षाद्वीर्यमिति सर्वायुर्वेदप्रसिद्धौ, द्वावेव गुणौ शीतोष्णौ वीर्यकरणहेतू| वीर्यं शक्तिः| उष्णगुणोत्कर्ष उष्णगुणातिशय एव कश्चिदुष्णवीर्याख्यां लभते| तथा शीतगुणोत्कर्षः शीतगुणातिशय एव शीतवीर्याख्याम्| यद्यपि नानात्मकमपि द्रव्यं, तथाप्यग्नीषोमात्मकत्वाज्जगतो द्विधैव वीर्यम्|


आ० र०- वीर्यद्वैविध्यमाह-उष्णेति| तच्च उष्णं शीतं च| ननु गुरुलघुस्निग्धरूक्षमन्दतीक्ष्णानामपि वीर्यत्वात्कथं द्वे एवेत्यत आह- उष्णशीतगुणोत्कर्षात्| यद्यपि कायाग्निपाकादष्टौ गुणा जायन्ते, तथाप्युष्णशीतयोर्गुणयोरुत्कर्षात् द्वैविध्यम्| गुणान्तरतिरस्कारे शक्तिरुत्कर्षः| शक्त्युत्कर्षे वीर्यशब्दो लोकेऽपि प्रसिद्धः| तत्र द्रव्ये| वीर्यमपि द्रव्याश्रयमित्यर्थः|

Veerya (Potency) Types / Dwividha virya

The component of the substance that is responsible for its action in the human body is
Virya/Veerya is of two kinds: 1. the one pertaining to heat (usna) and 2. the other related to coldness (shita)
Ushna veerya (Hot potency) pepper.

Sheeta veerya (cold potency) – milk.

Generally, Astringent, bitter and sweet taste substances are Sheeta virya, and Sour, salt, and pungent tastes are Ushna Virya.

त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||१७||

Click to read Sanskrit Tika
स०- विपाकस्त्रिविधः, सर्वद्रव्याणां परिणामकालभावी कार्यानुमेयो जाठराग्निसम्बन्धाद्रसस्य स्वरूपान्तरप्रादुर्भावः| स त्रिधैव, रसषट्त्वेऽपि न षोढा| तेन किञ्चित्स्वादुपाकं, किञ्चिदम्लविपाकं, किञ्चित्कटुविपाकं, द्रव्यम्| तत्र मधुरलवणयोर्मधुरो विपाकः| अम्लस्याम्लः| तिक्तकटुकषायाणां कटुकः| स च कार्यानुमेयः| तथा च वक्ष्यति (सू.अ.९/२०)- ‘जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इति स्मृतः’ इति| अत एव सोपसर्गः पाकशब्द उपात्तः| विशिष्टः पाको विपाकः, न पाकमात्रस्वरूपः| तथा च भट्टारकचरकमुनी (च.सू.अ.२६/६८)-‘रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया| वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते’ इति| एवं कर्मनिष्ठानुमित एकरूपावस्थो जाठराग्निसंयोगाद्यो रसानां रसान्तरोद्भवः, स एव विपाकः| न तु यो जाठराग्निसंयोगमात्राद्रसानामनेकावस्थः, प्राङ्मधुरोऽनन्तरं स एव पच्यमानोऽम्लस्ततो विपच्यमानः स एव कटुर्विपाकः|


आ० र०-विपाकभेदानाह-त्रिधेति| ते च त्रयः, स्वादुरम्लः कटुकश्चेति|

Vipaka Types


The end product of digestion
The end product of digestion is called Vipaka. The sweet (svadu), sour (amla), and
pungent (katu) is the three kinds of vipaka.17

Madhura Vipaka (sweet) – Sweet and salt tastes undergo Madhura Vipaka.

Amla Vipaka (Sour) – Sour taste undergoes Amla Vipaka

Katu Vipaka – rest of the tastes – Bitter, astringent and pungent tastes undergo Katu Vipaka.

Gurvadi guna : Twenty types of qualities

Gurvadi guna / Twenty types of qualities
Gurvadi guna Twenty types of qualities
Click to read Sanskrit Tika
स०- तत्र द्रव्ये गुर्वादयो दश गुणाः सविपर्यया विंशतिर्वेज्ञेयाः| एषां क्रमाद्विपरीता लघुतीक्ष्णोष्णरूक्षखरद्रवकठिनसरस्थूलपिच्छिलाः| गुरुस्तद्विपर्ययो लघुः| मन्दस्तद्विपर्ययस्तीक्ष्णः| हिमस्तद्विपर्यय उष्णः| स्निग्धस्तद्विपर्ययो रूक्षः| श्लक्ष्णस्तद्विपर्ययः खरः| सान्द्रस्तद्विपर्ययो द्रवः| मृदुस्तद्विपर्ययः कठिनः| स्थिरस्तद्विपर्ययः सरः| सूक्ष्मस्तद्विपर्ययः स्थूलः| विशदस्तद्विपर्ययः पिच्छिलः|


आ० र०- गुणभेदानाह-गुरुमन्देति| ते च विंशतिः| तत्र गुर्वादयो दश, तद्विपर्ययाश्च लघुतीक्ष्णोष्णरूक्षखरद्रवकठिनचलस्थूलपिच्छिला दश| द्रव्यस्य बृंहणे कर्मणि शक्तिर्गुरुः, लङ्घने लघुः, शमने मन्दः, शोधने तीक्ष्णः, स्तम्भने हिमः, स्वेदने उष्णः, क्लेदने स्निग्धः, शोषणे रूक्षः, रोपणे श्लक्ष्णः, लेखने खरः, प्रसादने सान्द्रः, विलोडने द्रवः, श्लथने मृदुः, दृढने कठिनः, धारणे स्थिरः, प्रेरणे चलः, विवरणे सूक्ष्मः, संवरणे स्थूलः, क्षालने विशदः, लेपने पिच्छिल इति| ननु व्यवायिविकाश्याशुकारिप्रसन्नसुगन्धादयः सविपर्ययाश्चान्येऽपि गुणा दृश्यन्ते| तद्यथा स्वयमेवाह (नि.अ. ६/१)-“तीक्ष्णोष्णरूक्षसूक्ष्माम्लव्यवाय्याशुकरं लघु| विकाशि विशदं मद्यमोजसोऽस्माद्विपर्ययः||” चरकः (सू.अ.२७/२१३)- “स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्| गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः|| तदेवङ्गुणमेवौजः सामन्यादभिवर्धयेत्||” सुश्रुतः (सू.अ. ४६/१८९)- “कषायं कफपित्तघ्नं किञ्चित्तिक्तं रुचिप्रदम्| हृद्यं सुगन्धि विशदं लवलीफलमुच्यते||” अयमेव (सू.अ. १/११)-“पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्||” चरकः (सू.अ. २७/१९३)- “शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्| प्रकृत्या दिव्यमुदकं भ्रष्टं पात्रमपेक्षते||” इत्यादि| तत्कथं विंशतिर्गुणा इति| अत्रोच्यते| य एतेऽतिरिक्ता गुणा दर्शिताः, ते विंशतावेवान्तर्भूताः| तथाहि-व्यवायिविकाश्याशुकारिणस्तावन्मद्ये पठ्यन्ते| प्रसन्नः क्षीरे| मद्यगुणविपरीता ओजसि| य एवौजसि त एव क्षीरे| ततश्च तद्गुणपरस्परविपर्ययपर्यालोचनया व्यवाय़ी-द्रवेऽन्तर्भूतः| विकाशी-खरे| आशुकारी-चले| प्रसन्नः-स्थूले| ते हि पारिशेष्यात् बहलश्लक्ष्णस्थिरसूक्ष्माणां विपर्ययाः| स्वदुशीतमन्दस्निग्धपिच्छिलगुरूणां ह्यम्लोष्णतीक्ष्णरूक्षविशदलघवो विपर्ययाः प्रसिद्धा एव| व्यवाय्यादिलक्षणं च द्रवादिष्वेव सम्भवति| यदाह सुश्रुतः (सू.अ. ४६/५२१)- “व्यवायी देहमखिलं व्याप्य पाकाय कल्पते| विकाशी विकषन् धातून् सन्धिबन्धान् विमुञ्चति|| आशुकारी तथाशुत्वाद्धावत्यम्भसि तैलवात्” इति| प्रसन्नत्वं स्फुटत्वम्| तच्च स्थूल एव, तस्य स्फुटप्रत्यक्षत्वात्| सुगन्धदुर्गन्धौ तु मन्दतीक्ष्णविशेषौ, इन्द्रियप्रसादनोद्वेजनद्वारा शमनशोधनरूपत्वात्| यदाह सुश्रुतः (सू.अ. ४६/५२०)- “सुगन्धो रोचनो मृदुः| दुर्गन्धो विपरीतोऽस्मात्” इति| शुचिविमलौ तु विशदविशेषौ| अदृष्टानां हि मलानां क्षालने शक्तिः शुचित्वम्| दृष्टानां विमलत्वम्| शिवं परिणामे हितम्| मृष्टं जिह्वाप्रियम्| ते च गुणकार्ये| गुणशब्दस्तूपचारात्| यथा- “क्षुद्बोधनो बस्तिविशोधनश्च प्राणाप्रदः शोणितवर्धनश्च| ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः||” इत्यादौ| यत्तु व्यवायिविकाशिनौ प्रस्तुत्योक्तं सङ्ग्रहे (सू.अ. १)- “सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकल्पितौ” इति| तदेकीयमतत्वादनादरणीयम्| तदादरणे यत्तैले व्यवायिबद्धविट्कयोरभिधानं तद्विरुद्धं स्यात्| यच्च मद्ये तीक्ष्णविकाशिनोस्तत्पुनरुक्तं स्यात्| यत्तु पित्ते तीक्ष्णविस्रयोरभिधानं, तदिन्द्रियोद्वेजकत्वे सत्यपि घ्राणेन्द्रियस्योद्वेजनातिशयार्थम्| सङ्ग्रहे तु (सू.अ. १)- “इन्द्रियार्था व्यवायी च विकाशी चापरे गुणाः| सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः||” इति|

Guru(heavy) X laghu (light in weight)

Manda(slow) X tiksna(quick,fast)

Hima (cold) X ushna (hot)
Snighda (unctuous) X ruksa (dry)

Slaksna (smooth) X khara (rough)

Sandra (solid) X drava (liquid)

Mrdu (soft) X kathina (hard)
Sthira (stable) X cala (moving, unstable)

Suksma (stable, small) X sthula (big,gross)

Vishada (non slimy) X picchila (slimy)

Cause for disease and health:

Cause for health and disease
Cause for health and disease
Click to read Sanskrit Tika
स०- कालः शीतोष्णवर्षलक्षणस्त्रिविधः| अर्थाः शब्दस्पर्शरूपरसगन्धा महाभूतगुणाः| तथा चागमः (च.शा.अ.१/२९)- “अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः” इति| कर्म क्रिया, कायवाङ्मनश्चेष्टा| कालश्चार्थश्च कर्म च तानि कालार्थकर्माणि, तेषां योगः सम्बन्धः, कालार्थकर्मणां योगः| किम्भूतः, हीनमिथ्यातिमात्रकस्तथा सम्यग्योगश्चेति| ये कालादीनां योगा हीनमिथ्यातिमात्रकाः, ते रोगैककारणम्| तेषामेव यः सम्यग्योगः, स आरोग्यैककारणं प्रधानकारणमिति| एकशब्दः प्रधानवचनः| यथा- ‘एकः पार्थो धनुर्धरः’ इति| कालस्य हीनयोगः स्वरूपहानिः| मिथ्यायोगः स्वरूपाद्वैपरीत्यम्| अतियोगः स्वरूपातिशयः| यथा- हीनशीतता हीनोष्णता हीनवर्षता हीनयोगे| शीतकालावसरेऽत्यौष्ण्यमुष्णकालावसरे शीतं वर्षाकालेऽवृष्टिर्मिथ्यायोगे| अतिशैत्यमत्यौष्ण्यमतिवर्षणमतियोगे| एतद्योगत्रयं रोगकारणम्| सम्यग्योगो यथास्वरूपस्थितिरारोग्यकारणम्| अर्थानां पुनः स्वेन स्वेनार्थेनेन्द्रियस्य हीनः संयोगो हीनयोगः| पुरुषानभिमतादिनार्थजातेनेन्द्रियस्य योगो मिथ्यायोगः| अत्यन्तसंयोगोऽतियोगः| एते त्रयो रोगकारणम्| यथास्वं सम्यग्योग आरोग्यकारणम्| कायादिकर्मणो हीनप्रवृत्तिर्हीनयोगः| वेगोदीरणादिकं सामिभुक्तभाषणादिकं रागद्वेषादिकं च यथास्वमुत्तरत्र (सू.अ.१२/४०) वक्ष्यमाणं मिथ्यायोगः| अतिप्रवृत्तिरतियोगः| सर्वेषां समा प्रवृत्तिः समयोगः| तेन हीनादयो योगास्त्रयो रोगकारणम्| सम्यग्योगस्त्वारोग्यकारणम्|


आ० र०- उक्तधर्मकाणां द्रव्याणाम् सदोपयोगात्सदैव दोषवैषम्ये प्राप्ते विशेषमाह-कालार्थेति| द्रव्याणि चरकोक्तानि (सू. अ. १/४७)- “खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|” इति| तत्र कालः साक्षादुपयुज्यते| महाभूतानि त्वर्थद्वारेण| दिगात्ममनांसि कर्मद्वारेण| कालो वर्षाशीतोष्णभेदात् त्रिधा| शब्दस्पर्शरूपरसगन्धभेदादर्थः पञ्चधा| कायिकवाचिकमानसिकभेदात्कर्म त्रिधा| तेषामसम्यग्योगो रागकारणं, सम्यग्योगस्त्वारोग्यकारणम्| तत्रासम्यग्योगस्त्रिधा, हीनयोगो मिथ्यायोगोऽतियोगश्चेति| शीतादीनां काललक्षणानामल्पत्वं कालस्य हीनयोगः, विपरीतस्वलक्षणो मिथ्यायोगः, आधिक्यमतियोगः| इन्द्रियैरिन्द्रियार्थानां योऽल्पः सम्बन्धः, सोऽर्थस्य हीनयोगः, अनुचितो मिथ्यायोगः, अधिकोऽतियोगः| अल्पा चेष्टा कर्मणां हीनयोगः, अनुचितो मिथ्यायोगः, अधिकोऽतियोगः| असम्यग्योगाद्विपरीतः सर्वेषां सम्यग्योगः| एतदुक्तं भवति| यद्यपि सर्वदा द्रव्यैर्योगस्तथाप्यसम्यग्योगो यदा, तदा दोषवैषम्यम्| यदा सम्यग्योगस्तदा दोषसाम्यम्| इति बहिरङ्गो हेतुः|


The basis of health is none but a proper combination of yoga of the season (kala),
the object of sense (artha) and activities (karmas). An inadequate, poor (hina), inappropriate
(mithya) and excessive (ati) yoga of these factors produces disease. 19

Definition of health and disease

Definition of health and disease
Definition of health and disease
Click to read Sanskrit Tika
स०- दोषाणां वातादीनां, वैषम्यं स्वप्रमाणादेकस्य द्वयोस्त्रयाणां वा वृद्धिः क्षयो वा, रुजाकरत्वाद्रोग एव| वैषम्यं विषमता स्वरूपाच्च्यावः| ततः कार्यकारणयोरभेदेन पठितो रोग इति| दोषाणां साम्यं स्वरूपादप्रच्युतिः समभावोऽरोगता आरोग्यं, स्वास्थ्यमिति यावत्|


आ० र०-अथ लक्षणं व्याचष्टे| रोगं लक्षयति-रोगस्त्विति| दोषदूष्याणां यद्वैषम्यं विकृतत्वं तद्रोगः| दोषशब्दोऽन्तरङ्गहेतुमात्रोपलक्षणः|
प्रसङ्गादारोग्यं लक्षयति-दोषसाम्यमिति| दोषदूष्याणां यत्साम्यमविकृतत्वं तदारोग्यम्|

Imbalance in Tridosha is the disease. The perfect balance of these three dosha is health.

Types of disease:

Nija and Agantuja Roga
Nija and Agantuja Roga
Click to read Sanskrit Tika
स०- तत्र तयो रोगारोग्ययोः, रोगा द्विधा निजागन्तुभेदेन| निजा वातादिदोषजन्मानः| आगन्तवो बाह्यहेतवः| तथा चाचार्यवचनम् (सं.सू.अ.२२)- “निजास्त्रिदोषोत्थाः| बाह्यहेतुजास्त्वागन्तवः”| अनयोरियान्विशेषः| निजे रोगे वातादयः पूर्वं वैषम्यं गत्वा पश्चाद्व्यथामभिनिर्वर्तयन्ति| आगन्तवः पुनः व्यथापूर्वमेवोत्पद्यन्ते, अनन्तरं तत्र वातादयः कुप्यन्तीति| अनेनोभयस्य निजागन्तुभेदभिन्नस्य व्याधेश्चेतः सन्तापकत्वं बोद्धव्यम्|

आ० र०- रोगभेदानाह-निजेति| द्विविधो रोगः, निज आगन्तुश्चेति| तत्र यद्दोषवैषम्यं स्वयमुत्पाद्य व्यथां निर्वर्तयति,  निजो रोगः| यस्तु शस्त्रादिना हेत्वन्तरेणोत्पन्नः,  आगन्तुः|

Disease (roga) is the outcome of a disequilibrium of the dosas, while the equilibrium of The dosas form the basis of health. Disease (roga) is considered to be of two kinds, organic, arising from the body itself (nija) and arising from external causes (agantu). The location
(adhisthana) of diseases is also two, namely the body (kaya) and the mind (manas). 20

Types of mental Doshas

Types of mental Doshas
Types of mental Doshas
Click to read Sanskrit Tika
स०- तेषां निजागन्तुकानां विकाराणां रोगाणां, कायमनोभेदेन द्विविधमधिष्ठानं स्थानम्| ज्वरास्रपित्तकासादीनां कायः| मदमूर्छासन्न्यासग्रहभूतोन्मादापस्माररागद्वेषादीनां मनः| अधितिष्ठन्त्यस्मिन्नित्यधिष्ठानम्| कायः शरीरम्| मनश्चेतः|


आ० र०- रोगाधिष्ठानमाह-तेषामिति| तच्च द्विधा, शरीरं मनश्च|

स०- मनश्चेतः, तस्य रजस्तमसी दोषौ, उपप्लवावविद्यासम्भवौ| अत्र  प्राधान्यादादौ रजो निक्षिप्तम्| चशब्दः पवनादीनामप्युपसङ्ग्रहार्थः| यस्मात्तेऽपि मनः संश्रित्य विकुर्वते| सङ्ग्रहे ह्युक्तम् (उ.अ.९)- “षडुन्मादा भवन्ति वातपित्तकफसन्निपाताऽऽधिविषनिमित्ताः” इत्यादि| उदाहृतौ इत्युदाहरणमात्रमुद्देशमात्रं वचनमात्रम्| अत्रायुर्वेदशास्त्रे, रजस्तमसोर्न साकल्येन व्याकरणमनिलादीनामिव| ते खल्वत्र स्वभावस्थानादिभिः प्रकारैरशेषमुक्ताः,  तु रजस्तमसी|


आ० र०- दुष्टस्य मनसो रोगाधिष्ठानत्वाद्दुष्टिहेतुमाह-रज इति|   द्विधा, रजस्तमश्च| द्वौ दोषौ द्वे दुष्टिकारणे इत्यर्थः|  त्वनयोर्वातादिवद्दोषत्वम्, ततोऽनन्तरमनुक्तेर्दोषविज्ञानीयादिषु चाग्रहणात्| कायोऽपि दुष्ट एव रोगाधिष्ठानम्| तस्य तु दोषा एव दुष्टिकारणम्|

Rajas – the quality of mind that drives us to take action,

Tamas – that leads to inaction and lethargy

How to examine patients? Darshana Sparshana Prashna Pariksha : Trividha Pariksha

How to examine patient?  : Trividha Pariksha
How to examine patient
Click to read Sanskrit Tika
स०- रोगोऽस्यास्तीति रोगी व्याधितः, तं दर्शनादिभिः परीक्षेत| दर्शनेन दृष्ट्या, कासमेहाद्यार्तेषु पीतशुक्लवर्णसंस्थानप्रमाणोपचयच्छायाविण्मूत्रच्छर्दितादिकम्| स्पर्शनेन हस्तकायस्पर्शेन, ज्वरगुल्मविद्रध्याद्यार्तम्, तथा शीतोष्णस्तब्धस्पन्दश्लक्ष्णखरस्पर्शादिकं च| प्रश्नेन पृच्छया, शूलारोचकच्छर्दिहृदर्दत्वं सुच्छन्ददुश्छन्दत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च, इत्यातुरमुखात्परीक्षेत|


आ० र०- रोगित्वज्ञानोपायमाह-दर्शनेति| स च त्रिधा, दर्शनं स्पर्शनं प्रश्नश्चेति| तत्र दर्शनेन वैवर्ण्यादिकं, स्पर्शनेन शैत्यादिकं, प्रश्नेन शूलादिकं, निर्धार्य रोग्ययमिति निश्चयः|

Darshana – by inspection, observation.

Sparshana – by touching
Prashna – by asking

Examination of disease: Roga Pariksha

Examination of disease
Examination of disease
Click to read Sanskrit Tika
स०- रोगं निदानादिभिः पञ्चभिः परीक्षेत| निदानं कारणं हेतुरित्यनर्थान्तरम्| तच्चासन्नविप्रकृष्टभेदेन द्विधा| आसन्नमपि द्विविधम्, आसन्नात्यासन्नभेदेन| आसन्नं रूक्षलघुशीतादिद्रव्योपयोगः| अत्यासन्नं तु यतः समनन्तरमेव रोगोत्पत्तिः| यथा वातादयो दोषाः क्रुद्धाः| विप्रकृष्टं यत् आदिकाले रुद्रकोपादि ज्वरादीनाम्| तथा हविःप्राशादि मेहकुष्ठादीनाम्| तेनैवंविधमर्थजातमेवंविधस्य रोगस्य हेतुत्वेनोपदिष्टम्, एवंविधश्चोत्पन्नोऽतो निदानाज्ञ्ज्ञायते रोगः| प्राग्रूपं पूर्वरूपं भविष्यतो व्याधेरप्रकाशितदोषविशेषाधिष्ठितस्य लक्षणम्, उद्बुभूषुर्ज्वरादिरामयो वातादिदोषविशेषेणालिङ्गितरूपाभासो येनावभास्यते, यथायथमल्पत्वाद्यदव्यक्तमस्फुटं लिङ्गं तत्प्राग्रूपम्| लक्षणं पुनस्तदेव प्राग्रूपाद्विलक्षणम्, येन सकलदोषविशेषालिङ्गितः स्फुटलिङ्गो व्याधिर्दृश्यते लक्ष्यते| उपशयः सुखानुबन्ध्याहाराद्युपयोगः| एवंविधेनाहारादिकेन हि तस्य पीडा नाभूत्, एवंविधेन चाभूत्, अत उपशयाज्ञ्ज्ञायतेऽयं रोग इति| स व्याधिसात्म्यः स्वास्थ्यहेतुः सुखावहः| आप्तिर्निर्वृत्तिः सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरम्| एवं दुष्टेनैवं स्थानस्थितेनैवमनुगतेनानया कल्पनयैवंमार्गेण दोषेणेति परिकल्पनम्, अत आप्त्या ज्ञायतेऽयं रोग इति|


आ० र०- रोगित्वे हि ज्ञाते कोऽसौ रोग इति विशेषज्ञानोपायमाह-रोगमिति| स च पञ्चधा, निदानं प्राग्रूपं लक्षणम् उपशयः आप्तिश्च| आप्तिः सम्प्राप्तिः| निदानं बहिरङ्गो हेतुः| प्राग्रूपं पूर्वजो रोगः| रोगस्य हि राजवत् प्रकाशमानस्य परिवारभूता रोगाः केचित्पूर्वं प्रकाशन्ते, केचित्सह, केचित्पश्चात्| तत्र ये पूर्वं, ते पूर्वरूपम्| ये सह, ते रूपम्| ये पश्चात्ते उपद्रवाः| ते चोभयेऽपि लक्षणपदेन सङ्गृहीताः| उपशयः व्याधिसात्म्यम्| आप्तिरन्तरङ्गो हेतुः| इति रोगलक्षणम्|


By its causes, aetiology (nidana), prodormata, premonitory symptoms (pragriipa), specific indications and symptoms, clinical features (laksana), diagnostic tests (upasaya) and pathogenesis (samprapti) the disease (roga) might be examined. 22
Ref. For further discussion on this topic, the readers could also consult AH. Ni. 1.

Types of Desha

Types of desha
Types of desha
Click to read Sanskrit Tika
स०- इहास्मिन्नायुर्वेदशास्त्रे, आचार्या द्विधा द्विप्रकारं, देशमाहुः कथयन्ति| भूमिभेदेन देहभेदेन च|


आ० र०- अथौषधं व्याचष्टे| तच्च देशकालावपेक्षते इति प्रथमं तावद्देशः| तत्र देशे भेदद्वयमाह-भूमिदेहेति| तच्च भूमिर्देहश्च| इहेत्यायुर्वेदशास्त्रे| शास्त्रान्तरेषु देहस्य देशव्यवहाराभावात्|

स०- भूदेशं पुनस्त्रिधा त्रिप्रकारम्, आदिशेत् वदेत्| तत्र जाङ्गलो देशोऽल्पोदकतरुपर्वतत्वेन वक्ष्यमाणलक्षणः, वातभूयिष्ठो वातप्रचुरः| तत्र जाता ओषधिखगपुरुषमृगादयो वातप्रधाना भवन्ति| प्रचुरोदकवृक्षो यो निर्वातो दुर्लभातपः सोऽनूप इति|   कफप्रधानः| तज्जाश्चौषध्यादयः स्निग्धा भवन्ति| साधारणः पुनरुभयलक्षणो मध्यपतितो व्यामिश्ररूपः|   सममलो वातादिसमदोषः| अत्र दोषा एव मलशब्देनोक्ताः| वक्ष्यति हि (सङ्ग्रहे सू.अ.२०)| “देहस्य मलिनीकरणादाहारमलत्वाच्च मलाः|”


आ० र०- भूदेशभेदानाह-जाङ्गलमिति| ते  त्रयः, जाङ्गलोऽनूपः साधारणश्च| तत्र यो वातभूयिष्ठो वातरोगबहुलस्तं जाङ्गलं, यः कफोल्बणः कफरोगबहुलस्तमनूपं, यः सममलः समदोषत्वादारोग्यबहुलस्तं साधारणमादिशेत्| देहभेदास्तु प्रकृतिभेदैरुक्ताः|


The term desha is used in Ayurveda to denote the body (the deha) and the countries or
locals (bhumidesa).
Ayurveda classifies the countries or locals (bhumidesa) into three types: viz 1 .jangala,2.anupa and 3. the sadharana. Of them, the jangala is pre-dominated by vata. The anupa is pre-dominated by kapha. The sadharana type of land is pre-dominated by the equal position of all three dosas. 23

Kala types:

types of kala time
types of kala / time

 

Click to read Sanskrit Tika
स०- कालो द्विविधः, क्षणादिलक्षणो व्याध्यवस्थालक्षणश्च| भेषजस्यौषधस्य, योगं करोति| तदर्थसम्पादनसामर्थ्यं करोतीत्यर्थः| भेषजस्य योगो भेषजयोगः, तं करोति| क्षणादिः प्रसिद्धः| आदिग्रहणाल्लवत्रुटिमुहूर्तयामाहोरात्रपक्षमासर्त्वयनसंवत्सराणां परिग्रहः| क्षणादिकालस्योदाहरणम्| यथा- “पूर्वाह्णे वमनं देयं मध्याह्ने तु विरेचनम्| मध्याह्ने किञ्चिदावृत्ते बस्तिं दद्याद्विचक्षणः||” व्याध्यवस्था सामनिराममृदुमध्यतीक्ष्णत्वात्तत्तद्योग्यौषधविसृष्टिः| यथा (च,चि.अ.३/१४० , हृ.चि.अ.१/२१)- “लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः| मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा||” यथा (च.चि.अ.३०/२८७)- “ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्| त्र्यहं वा षडहं युंज्याद्वीक्ष्य दोषबलाबलम्||” यथा (हृ.चि.अ.१/४४)- “मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा| अचिरज्वरितस्यापि भेषजं योजयेत्तदा||” अस्यामवस्थायां दत्तमौषधमारोग्याय भवति|


आ० र०- कालभेदद्वयमाह-क्षणादिरिति| तच्च क्षणादिरूपो व्याध्यवस्थारूपश्च| क्षणो मात्रा, आदिशब्दात्काष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षाणि| तत्राक्षिनिमेषो मात्रा, ताः पञ्चदश काष्ठा, तास्त्रिंशत्कला, ताः सदशभागा विंशतिर्नाडिका, ते द्वे मूहूर्तः, ते तुल्यरात्रिंदिवे राशिभागे चत्वारः पादोना यामः, तैश्चतुर्भिरहो रात्रिश्च, पञ्चदशाहोरात्राः पक्षः, तौ द्वौ मासः, तौ द्वावृतुः, ते त्रयोऽयनं, ते द्वे वर्षम्| व्याध्यवस्था आमपच्यमानपक्वनवपुराणतीक्ष्णमृदुत्वादयः|
देशकालयोरुपयोगमाह-भेषजयोगकृदिति| देशकालवाक्ययोः शेषभूतोऽयं ग्रन्थः| योऽयमुक्तो देशः कालश्च| तदुभयं भेषजस्य योगं योग्यतां करोति| उक्तं हि सङ्ग्रहे (सू.अ. २३)- “भेषजमवचारयन् प्रागेव तावदातुरं परीक्षेत| कस्मिन्नयं देशे जात इत्यादि| तस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावद्बलमेवंविधं सत्वमेवंविधं सात्म्यमियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति| तथा, अतिस्थूलोऽतिकृशो दुर्बलो दुष्टमांसशेणितास्थ्यङ्गावयवोऽल्पाग्निरल्पाहारोऽसात्म्याहारोऽपचितः साररहितो वा व्याधिबलमेव तावदसमर्थः सोढुम्| किं पुनस्तथाविधो भेषजवेगमिति| तथा, कालश्च भेषजस्य योग्यतामापादयतीत्युपक्रम्य, शीतोष्णवर्षालक्षणा ऋतव इत्याद्युपक्रम्य, औषधग्रामस्त्वित्यादि| तथा, तस्मात्साधारणेष्वेव तदन्तरालेषु वमनादीनि योजयेदिति| तथा, आतुरावस्थासु तु कालाकालसंज्ञा| यथाऽस्यामवस्थायामस्यौषधस्य कालोऽकालो वा| न ह्यप्राप्तातीतकालमौषधं यौगिकं भवति” इति|


The time (kala) is of two kinds. The one is that begins with moment (ksana) and the
like. The other is relevant to the administration and selection of the medicine or therapies. It also pertains to the different stages of the disease. 24

Types of medicines:

Types of treatment in ayurveda
Types of medicines
Click to read Sanskrit Tika
स०- समासात्संक्षेपतः, यत्किञ्चिज्जगत्यौषधं सम्भवति, तदनेकप्रकारं सम्भवदपि द्वैरूप्यानतिक्रमाच्छोधनशमनलक्षणात् द्विधेत्युक्तम्| एकं शोधनरूपमपरं शमनरूपमिति| शोधनं यत् कुपितान् दोषान् बहिर्निःसार्य रोगोपशमनं करोति| शमनं यत्स्वस्थानस्थितानामेव साम्यहेतुः|


आ० र०- औषधभेदद्वयमाह-शोधनमिति| तच्च शोधनं शमनं च| समासत इत्यनुवर्तमानेऽपि पुनः समासग्रहणमतिसंक्षेपाय| सामान्योक्त्या विशेषसङ्ग्रहः संक्षेपः| लङ्घनबृंहणे सामान्ये विहाय लङ्घनविशेषयोः शोधनशमनयोरुक्तिरित्यतिसंक्षेपः| स च बृंहणस्य शमनेऽन्तर्भावं मत्वा कृतः| वक्ष्यति हि (सू.अ. १४/७)- “बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च|” इति| शोधनं अधिकबहिर्निरसनेन दोषसाम्यकरम्| शमनं त्वधिकक्षीणक्षपणवर्धनाभ्याम्| अतएवात्यधिके दोषे शोधनम्, अधिकक्षीणयोः शमनमिति विभागः सिद्धः|

स०- शरीरजानां वातादीनां, क्रमेण यथासंख्येन परिपाठ्योद्देशनिर्देशेन, परमौषधं प्रधानौषधं, बस्त्यादिवमनान्तं शोधनरूपं, तैलादिमध्वन्तं शमनरूपम्| तेन वातस्य बस्तिर्गुदप्रणिधेयस्नेहक्वाथादि परमौषधम्| पित्तस्य विरेको मुखपीतं गुदमार्गेणान्तःस्थितस्य दोषस्य निःसारणं परमौषधम्| कफस्य वमनं मुखेन पीतं तेनैव दोषस्य निःसारणं परमौषधम्| इति शोधनरूपेण दोषाणामौषधम्| तैलादि तु शमनस्वरूपेणौषधम्| तथेति क्रमेणैव| वातस्य तैलं, पित्तस्य घृतं, कफस्य माक्षिकं परमौषधम्| प्रधानमौषधमिति यावत्|


आ० र०- शोधनशमनविशेषाणां विषयविभागमाह-शरीरजानामिति| तत्र शोधनविशेषा बस्त्यादयः क्रमेण दोषाणामौषधम्| वातस्य बस्तिः, पित्तस्य विरेकः, कफस्य वमनम्| तथा शमनविशेषास्तैलादयः| वातस्य तैलं, पित्तस्य घृतं, कफस्य मधु| किं सर्वेषां, नेत्याह-शरीरजानां, शरीरे जाताः द्वितीयं रोगाख्यं जन्म प्राप्ताः शरीरजाः शरीराश्रितास्तेषाम्| कथं, परमतिशयेन| एतदुक्तं भवति| सर्वेषां दोषाणां बस्तिरौषधं विशेषाद्वातस्य| सर्वाणि शोधनानि वातस्यौषधं विशेषाद्बस्तिः| तथा मनःशरीराश्रयाणां दोषाणां बस्तिरौषधं विशेषाच्छरीराश्रयाणाम्| एवं विरेकादिषु वाच्यम्|

 

Therapies (ausadha) which have been
explained in brief: the ones that are purposeful for purificatory (sodhana) therapy and the other meant for palliative (Samana) therapy.

Therapies Types : Panchkarma for Three Dosha

Enema (basti), purgation (virechana) and emesis (vamana) are the best therapies respec­tively for the three dosas of the body. In other words, to cure the vitiated vata, the basti (enema) therapy is the best. For the vitiated pitta the virechana (purgation) therapy is the best. For the vitiated kapha, the emesis (vamana) therapy is the best. Likewise, oil (taila) is the best to control the vitiated vata, butterfat (ghrita) is considered the best to check the pro­voked pitta while honey (madhu) is the most effective stuff in balancing kapha related prob­lems.

Treatment for mental imbalance:

Treatment for mental imbalance
Treatment for mental imbalance
Click to read Sanskrit Tika
स०- मनोदोषयो रजस्तमसोः, रोगविघ्नकारि धीधैर्यादिकं, परमौषधम्| धीश्च धैर्यं चात्मादिविज्ञानं च तत्तथाविधम्| तत्र धीर्बुद्धिर्बाह्याध्यात्मिकानां भावानां हिताहितपरिच्छेदविभागकारिणी| धैर्यं धृतिश्चेतसः स्थिरत्वमचापलम्, येन प्रतिषिद्धेषु न प्रवर्तते, हितेषु च न सीदति| आत्मविज्ञानं योगाभ्याससमाधिना परमात्मस्वरूपविज्ञानम्| आदिग्रहणाज्ज्ञानविज्ञानस्मृतिदेशकालादीनां परिग्रहः| मनोदोषसमुत्थकामादिजरोगार्थः परशब्दो विशेषणत्वेन निर्दिष्टः|


आ० र०- अमूर्तस्य शमनस्य विषयमाह-धीति| तच्च धीप्रभृति| धीर्बुद्धिः, यया हिताहितविवेकः| धैर्यं दुःखसहत्वं, येन हितसेवनमहितत्यागः| आत्मादिविज्ञानं आत्मादयः आत्मदेशकालास्तेषां विज्ञानमीदृशोऽहमीदृशे देशे ईदृशे काले व्यवहरामीति ज्ञानं, येन हितसेवनस्याविच्छेदः| एतत्सर्वं मनोदोषौषधं हृदयाश्रयाणां वातादीनामौषधं परं, सर्वमेव मनोदोषाणामौषधं विशेषाद्धीप्रभृति| तथा मनःशरीराधिष्ठितानां दोषाणां धीप्रभृत्यौषधं विशेषान्मनोधिष्ठितानामित्यर्थः| इति रोगौषधम्|

The ideal therapies for the mind are discrimination (dhi), courage, strong will (dhairya), and knowledge of the soul and the self. 25-26

Chikitsa Chatushpada : Four Pillars of Treatment

Chikitsa Chatushpada
Chikitsa Chatushpada
Click to read Sanskrit Tika
स०- चिकित्सितस्य रोगोपशमलक्षणस्य, पादचतुष्टयमङ्गचतुष्टयमुक्तम्| प्रत्येकं तच्चतुर्गुणमेवं षोडशगुणं चिकित्सितं भेषजं भिषजो भाषन्ते| भिषग्वैद्यः, तस्य प्राधान्यादग्रे निर्देशः| तथा चागमः (चरके सू.अ.९/१०)- “योक्ता प्रयोक्ता शास्ता च प्रधानो भिषगत्र तु||” तथा सङ्ग्रहेऽपि (सू.अ.२)- “यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः| स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्|| चिकित्सायास्तमेवातः प्रधानं कारणं विदुः|” द्रव्याण्यौषधानि| उपस्थाता परिचारकः| रोगी आतुरः| एतत्पादचतुष्टयं निर्दिष्टमाचार्येण|


आ० र०- औषधपादानाह-भिषगिति| ते च चत्वारः, भिषग्द्रव्यमुपस्थाता रोगी चेति| उपस्थाता परिचारकः| चिकित्सितस्यौषधस्य| पादत्वं चैषां क्रियानिष्पादकावयवत्वात्|

पादान्विशिनिष्टि-प्रत्येकमिति| तत्पादचतुष्टयं, प्रत्येकं च तुर्गुणं ज्ञेयम्| तत्तद्गुणवतामेवैषां पादत्वमित्यर्थः|


Four limbs of treatment
The four limbs (pada) of treatment are the physician, the nurse, the herbs and the patient.
Each one of them has four qualities. 27

Qualities of doctor:

Qualities of doctor
Qualities of doctor
Click to read Sanskrit Tika
स०- दक्षः- कर्मणि चतुरः| तीर्थादुपाध्यायाद्विदितागमादात्तो गृहीतः शास्त्रार्थो येन स तीर्थात्तशास्त्रार्थः, “अनेकमन्यपदार्थे” इति तृतीयार्थे बहुव्रीहिः, आगमप्राप्तशास्त्रस्वरूपः| बहुशो दृष्टं कर्म येन चिकित्सालक्षणं स दृष्टकर्मा-अभ्यस्तकर्मा शतशश्चिकित्सितरोगः| शुचिः- कायवाङ्मनोव्यापारैर्मलीमसैरपरामृष्टः, अलिप्सावान् अर्थोपजीविकाहेतोर्न करोति परं धर्मोपार्जनेनेति शुचिः|


आ० र०- तत्र भिषग्गुणानाह-दक्ष इति| दक्षः-शीघ्रकारी| तीर्थात्तशास्त्रार्थो-गुरोर्गृहीतायुर्वेदार्थः| तीर्थं-गुरुः| दृष्टकर्मा-बहुधाऽनुष्ठितशास्त्रार्थः| शुचिर्मनोवाक्कायैः शुद्धः| सङ्ग्रहे तु (सू. अ. २)- “अभेद्योऽनुद्धतोऽस्तम्ब्धः सूरतः प्रियदर्शनः| सूरतः-कारुणिकः| बहुश्रुतः कालवेदी ज्ञातग्रन्थोऽर्थकर्मवित्|| अनाथान् रोगिणो यश्च पुत्रवत्समुपाचरेत्| गुरुणा समनुज्ञातः स भिषक्शब्दमश्नुते|| यस्तु केवलशास्त्रज्ञः कर्मस्वपरिष्ठितः| स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम्|| यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्रार्थवर्जितः| स सत्सु गर्हामाप्नोति वधं चेच्छति राजतः|| हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे| ज्ञानं चतुर्विधं यस्य स राजार्हो भिषग्वरः|| शास्त्रं शस्त्राणि सलिलं गुणदोषप्रवृत्तये| पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्|| प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः| ताभ्यामतः सुयुक्ताभ्यां चिकित्सन्नापराध्यति|| आहूत एव यो याति सुवेषः सुनिमित्ततः| गत्वाऽऽतुरार्थादन्यत्र न निधत्ते मनः क्वचित्|| व्याधिं परीक्षते सम्यङ्निदानादिविशेषतः| ह्नेपणीयां च तद्वार्तां न प्रकाशयते बहिः|| सहसा न च तस्यापि क्रियाकालमहापयन्| जानाति चोपचरितुं स वैद्यः सिद्धिमश्र्नुते|| नाददीतामिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे| ताभिश्च रहसि स्थानं परिहासां च वर्जयेत्|| जिजीविषुर्व्याधितोऽपि पूर्वोक्तगुणवर्जितान्| क्रियाविक्रयिणो वैद्यान् मृत्योरग्रेसरा हि ते|| यद्वैद्ये विगुणे पादा गुणवन्तोऽप्यनर्थकाः| स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत्|| चिकित्सायास्तमेवातः प्रधानं कारणं विदुः| व्याधिं पुरा परीक्ष्यैवमारभेत ततः क्रियाम्|| स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्| साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यतम्|| विद्यादसाध्यमेवातः साध्यासाध्यसमागमम्| नासाध्यः साध्यतां याति, साध्यो याति त्वसाध्यताम्|| पादापचाराद्दैवाद्वा यात्यवस्थान्तरं गदः| वरमाशीविषविषं दीप्तमग्निमयोऽपि वा|| उपयुञ्जीत न त्वार्तादामिषं कृपणाज्जनात्| परो भूतदया धर्म इत्यार्तेषु भिषग्वरः|| वर्तते यः सुसिद्धार्थः स सर्वमतिवर्तते” इति|

As regards the prerequisites of the physician, he should be efficient. He must have learnt the science in all its branches from an able preceptor; he must have witnessed the therapies and thus gained practical experience. He should also possess a pure body, a clean mind and a pure speech.

Qualities of medicine:

Qualities of medicine
Qualities of medicine
Click to read Sanskrit Tika
स०- बहवः कल्पाः यस्मिन् सम्भवन्ति स्वरसक्वाथचूर्णाद्यास्तद्बहुकल्पं-व्याधीनां निवारणक्षमं न तु लवणवदेककल्पम्| तद्धि सुखमुपयुज्यते| नानाशक्तयो हि सत्त्वाः| बहवो गुणा यस्य गुरुमन्दादयस्तद्बहुगुणम्, अथवा यदनेकरोगविनाशनसमर्थम्| सम्पन्नं-सम्पत्तियुक्तं, न विपन्नम्, प्रशस्तभूमिदेशजातादिगुणयुक्तम्| तथा च ग्रन्थः (हृदये क.अ.१/१)- “धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ| श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते|” इति| अथवा पाकसंस्कारादियुक्तम्| योग्यं-दातुं यद्यत्रार्हति तच्च तत्र योग्यम्| व्याधिदेशकालदोषदूष्यदेहवयोबलादीन् ज्ञात्वा, युज्यते दीयत इति तद्योग्यं, रोगस्य रोगिणश्च|


आ० र०- द्रव्यगुणानाह-बहुकल्पमिति| बहवः कल्पाः स्वरसादयो यस्य तद्बहुकल्पम्| बहवो गुणाः गुरुमन्दादयो यस्य तद्बहुगुणम्| रसादिसम्पत्त्या यद्युक्तं तत्सम्पन्नम्| देशकालाद्युचितं योग्यम्| औषधमत्र द्रव्यं, चिकित्सितरूपस्यौषधस्याङ्गत्वायोगात्|

Bahukalpa – Able to formulate in different dosage forms, like decoction, powder, herbal oil etc
Bahuguna – Having infinite qualities
Sampanna – graced with virtues Yogya – suitable and appropriate for specific diseases.

Qualities of nurse

Qualities of nurse
Qualities of nurse
Click to read Sanskrit Tika
स०- अनुरक्तो-दृढभक्त आतुरस्य| शुचिः- कायवाङ्मनोव्यापारैर्दुष्टैरपरामृष्टः| दक्षः- सर्वचेष्टासु चतुरः| बुद्धिमान्- विशिष्टया बुद्ध्या युक्तः, प्रवीण इति यावत्|


आ० र०- परिचारकगुणानाह-अनुरक्त इति| अनुरक्तःस्नेहलः| शुचिदक्षौ वैद्यवत्| बुद्धिमान्-प्राज्ञः|

Anurakta – Compassion towards patients

Shuchi – Cleanliness
Daksha – Alert, active
Buddhiman – Intelligence

Qualities of patient

Qualities of patient
Qualities of patient
Click to read Sanskrit Tika
स०- आढ्यो-धनवान्| भिषग्वश्यो-वैद्यायत्तः, तदुक्तकारी| ज्ञापको-निदानावस्थादीनामावेदकः, वैद्यं रोगाहारविहारादीनामन्वयव्यतिरेकं बोधयितुं समर्थः| सत्त्ववान्-धैर्ययुतो मोहवर्जितः, धैर्येण प्रायश्चित्तवच्चिकित्सां करोति| अपि समुच्चये|


आ० र०-रोगिगुणानाह-आढ्य इति| आढ्यो-धनवान्| भिषग्वश्यो-वैद्याधीनः| ज्ञापकः-स्वानुभूयमानरोगावस्थानिरूपणसमर्थः| सत्त्ववान्-रोगौषधक्लेशसहः| इति भिषगादिपादचतुष्टयम्|

Adya – Rich
Bhishagvashya – fully obedient towards doctor
Jnapaka – Good memory
Satvavaan – The one who has good strength to tolerate any disease and treatment.

Types of diseases:

Types of diseases
Types of diseases
Click to read Sanskrit Tika
स०- सर्वौषधक्षमे देह उत्पन्नो व्याधिः सुखसाध्यः सुखोपायः, तथा कालेनाल्पेन साध्यते| सर्वाण्यौषधानि यः क्षमते सहते तीक्ष्ण्मध्यमृदुरूपाणि नानादेशजानि शमनानि तथा शोधनरूपाणि तथा विषक्षारादीनि| यूनः- वयस्यस्य, तरुणस्येत्यर्थः| पुंसो- न स्त्रियाः| पुंग्रहणं स्त्रीनिवृत्त्यर्थम्| यतस्तस्याः सर्वदा भीरुत्वमबुद्धिमत्त्वं च, अतो यथोक्तानुरूपगुणाभावः| सा तु यस्मात्तीक्ष्णोष्णौषधानि न सहते, सौकुमार्यादियोगात्| जितात्मनोऽलोलुपस्य, जित आत्मा येन, विषयाभिलाषं परिहरतः| अमर्मगो- न मर्मस्थः, मर्माणि- शिरोहृदयबस्तिप्रभृतीनि, तेषु गच्छतीति मर्मगः, न मर्मगोऽमर्मगः, हृत्कण्ठादिपीडाकरणासमर्थः| अल्पहेत्वग्ररूपरूप इति| हेतुश्चाग्ररूपं च रूपं च तानि हेत्वग्ररूपरूपाणि, अल्पानि हेत्वग्ररूपरूपाणि यस्य स तथाविधः| हेतुर्निदानम्, अग्ररूपं- पूर्वरूपम्, रूपं- लक्षणम्, एतान्यल्पानि यस्य| अनुपद्रव इति| न विद्यते उपद्रवो यस्य, उत्पन्नस्य व्याधेरनन्तरं जायते योऽन्यो व्याधिः, न तल्लक्षणभूतोऽप्रधानः, न यथास्वलक्षणः, तदुपक्रमनिरोधकः, स उपद्रवः| तथा चागमः- “व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः| उपक्रमविघाती च स ह्युपद्रव उच्यते||” इति| अतुल्यदूष्यदेशर्तुप्रकृतिरिति| दूष्यश्च देशश्च ऋतुश्च प्रकृतिश्च ता दूष्यदेशर्तुप्रकृतयः, अतुल्या दूष्यदेशर्तुप्रकृतयो यस्य| अतुल्याः- न सदृशाः| यथा- दूष्ये मेदोमज्जादौ, अनूपदेशे, शीतर्तौ, आतुरो वातप्रकृतिः, तस्य कुपितं पित्तं सुखसाध्यमिति| अतुल्यदूष्यो यथा- श्लेष्मणा शीतेन रक्तमुष्णं दूषितम्| अतुल्यदेशो व्याधिर्यथा- अनूपदेशे पित्तसम्भूतः| अतुल्यर्तुर्यथा- शरदि कफोद्भवः| अतुल्यप्रकृतिर्यथा- पित्तप्रकृतेः श्लेष्मोद्भवो व्याधिः| नन्वतुल्यदूष्यदेशर्तुप्रकृतित्वादसौ कृच्छ्रसाध्यो याप्यो वा प्राप्तः, न सुखसाध्यः, अनेकसुखोपक्रमसाध्यत्वात्| यतो दूष्यादीनामतुल्यत्वात्परस्परमन्य एवोपक्रमः| एकसुखोपक्रमः सुखसाध्यो व्याधिः| अत एव साध्ययाप्यपरित्याज्या मेहाः श्लेष्मपित्तवातोत्थाः (हृंइ.अ.१०/६)- “समासमक्रियतया महात्ययतयापि च” इत्येवं निर्दिशति| अत्रोच्यते| तथाप्रभावत्वात्प्रमेहाख्यस्य व्याधेः, यदुत श्लेष्मप्रमेहः समक्रियत्वात्साध्यः, पित्तप्रमेहो विषमक्रियत्वाद्याप्यः, महात्ययत्वाच्च वातप्रमेहः प्रत्याख्येयः| किञ्च तुल्यदूष्यदेशर्तुप्रकृतित्वान्महारम्भो निष्प्रत्यनीको व्याधिर्जायते, अतोऽसौ न सुखसाध्यः| कुत्रचिद्व्याधौ तुल्यदूष्यादिरपि सुखसाध्यत्वेन ज्यायान्| तथा च ग्रन्थः- “ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः||” पादसम्पदीति| भिषगादीनां चतुर्णां पादानां सम्पत्समृद्धिः, तस्यां सत्यां, अङ्गचतुष्टये परिपूर्णे सति| ग्रहेष्वनुगुणेष्विति| ग्रहाः- सूर्यादयः, तेष्वनुगुणेष्वनुकूलराशिस्थितेषु शोभनस्थानगतेषु सत्सु| एकदोषमार्ग इति| दोषश्च मार्गश्च दोषमार्गम्, एकं दोषमार्गं यस्य स तथोक्तः| दोषो- वातादिः| मार्गस्त्रिविधः शाखादिर्वक्ष्यमाणो बाह्याभ्यन्तरमध्यभेदेन| तेनैकेन वातादीनामन्यतमेन दोषेण यो जातो न द्वाभ्यां त्रिभिर्वा, तथैकेनापि मार्गेण बाह्येन मध्येनाभ्यन्तरेण वा जातः| नवो- न जरठः, अचिरोत्पन्न इत्यर्थः| यस्माद्वत्सरातीता व्याधयोऽसाध्याः| स तथाविधो व्याधिः सुखः- सुखेन साध्यते| तथा च ग्रन्थः (सं.सू.अ.२, चंइ.अ.८)- “सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते” इति|


आ० र०-उक्तमौषधमसाध्ये व्याधौ निषेद्धुं साध्ययाप्यासाध्यविवेकं करोति| तत्र साध्यो द्विविधः, सुखः कृच्छ्रश्च| तत्र सुखसाध्यं लक्षयति-सर्वौषधेति| सर्वौषधक्षमदेहत्वाद्येकोनविंशतिलक्षणो रोगः सुखः-सुखसाध्यः| तानि च लक्षणानि विपर्ययात्यन्ताविपर्ययाभ्यां सह लिख्यन्ते, कृच्छ्रादिषूपयोगात्| सवौषधक्षमदेहजत्वं, कतिपयौषधक्षमदेहजत्वं, औषधमात्राक्षमदेहजत्वम्| १| युवजत्वं, बालवृद्धजत्वं, अतिबालतिवृद्धजत्वम्| २| पुंजत्वं, स्त्रीनपुंसकजत्वं, गर्भिणीसूतिकास्त्रीलक्षणनपुंसकजत्वम्| ३| विषयानासक्तेन्द्रियजत्वं, विषयासक्तेन्द्रियजत्वं, असद्विषयासक्तेन्द्रियजत्वम्| ४| अमर्मगत्वं, मर्मगत्वं, प्राणहरमर्मगत्वम्| ५| अल्पनिदानत्वं, बहुनिदानत्वं, यावदुक्तनिदानत्वम्| ६| अल्पसम्प्राप्तित्वं, बहुसम्प्राप्तित्वं, यावदुक्तसम्प्राप्तित्वम्| ७| हेतुर्निदानं सम्प्राप्तिश्च| अल्पपूर्वरूपत्वं, बहुपूर्वरूपत्वं, यावदुक्तपूर्वरूपत्वम्| ८| अल्परूपत्वं, बहुरूपत्वं, यावदुक्तरूपत्वम्| ९| अनुपद्गवत्वं, सोपद्रवत्वं, यावदुक्तोपद्रवत्वम्| १०| उत्पादकदोषापेक्ष्या विपरीतदूष्यत्वं, यथा-पित्तजे रसगत्वम्| तुल्यदूष्यत्वं, यथा-पित्तजे रक्तगत्वम्| तुल्यानेकदूष्यत्वं, यथा-पित्तजे रक्तस्वेदगत्वम्| ११| विपरीतदेशत्वं, यथा-कफजे जांगलत्वम्| तुल्यदेशत्वं, यथा-कफजेऽनूपगत्वम्| तुल्यदेशजन्मगत्वं, यथा-कफजे जन्मप्रभृतिसेवितानूपगत्वम्| १२| अतुल्यर्तुत्वं, यथा-वातजे शारदत्वम्| तुल्यर्तुत्वं, यथा-वातजे ग्रीष्मत्वम्| तुल्यप्रकोपर्तुत्वं, यथा-वातजे वार्षिकत्वम्| १३| विपरीतप्रकृतित्वं, यथा-पित्तजे कफप्रकृतित्वम्| तुल्यप्रकृतित्वं, यथा-पित्तजे पित्तप्रकृतित्वम्| तुल्यनिन्द्यप्रकृतित्वं, यथा-पित्तजे वातपित्तप्रकृतित्वम्| वातस्य योगवाहित्वात्| १४| पादसम्पद्भावत्वं, पादविकृतत्वं, सर्वपादविकृतत्वम्| १५| अनुकूलग्रहत्वं, प्रतिकूलग्रहत्वं, प्रतिकूलसर्वग्रहत्वम्| १६| एकदोषत्वं, द्विदोषत्वं, सर्वदोषत्वम्| १७| एकमार्गत्वं, अनेकमार्गत्वं, सर्वमार्गत्वम्| १८| अनतिक्रान्तवत्सरत्वं, अतिक्रान्तवत्सरत्वं, बह्वतिक्रान्तवत्सरत्वम्| १९|

Two main types, which are further divided into two types.
Sadhya – Which can be cured. It is of two types –

Easy to cure (Sukha Sadhya), Difficult to get cured (Krichra Sadhya)

Asadhya – This can not be cured. Asadhya is again of two types – Yapya (medicine is required till patient is alive),

Anupakrama (No medicine will be effective in this condition. )


Sukhasadhya Vyadhi : Qualities of diseases which can be cured easily:

Qualities of diseases which can be cured easily
Qualities of diseases which can be cured easily

The sukhasadhya types of diseases are those that are present in an individual capable of withstanding all kinds of therapies, those are adults, the males; among those who are self Controlled The sukhasadhya diseases do not affect the vital organs. They are produced out of a few mild causes, prominent symptoms and specific features; that is uncomplicated, hav­ing no secondary disease or very troublesome symptoms which are dissimilar in respect of tissues (dosas, dushyas), habitat (desha), season (ritu) and body constitution (prakruti which have four limbs of treatment in excellent condition; which have very favourable planetary influence; that are arisen from only one dosa that are seen manifesting in one disease path­ way and that are of recent onset.


Curable with difficulty (krcchrasadhya) diseases :

Krccharasadhya vyadhi are that require the use of sharp
instruments and the like in treatment. They have a mixture of causative factors as well. 30 -31


The controllable (yapya) diseases

are those that persist till the remainder of life, but
can be controlled with a continuous good regimen of herbs, eatables, activities and the like.
They also possess qualities of easily curable diseases. 32

Asadhya Vyadhi / qualities of Incurable diseases

qualities of difficult-to-treat diseases
qualities of difficult to treat diseases
Click to read Sanskrit Tika
स०- यो गदो रोगः, शस्त्रादिसाधनः शस्त्रादिभिः साध्यते, स कृच्छ्रसाध्यः कृच्छ्रप्रतीकारो महद्भिरुपायैः साध्यते तथा चिरेण| तथा च ग्रन्थः (सं.सू.अ.२)- “कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च||” आदिग्रहणेन क्षाराग्निकर्मविषलेपादयो गृह्यन्ते| तथा, सङ्करे च- ततः पूर्वोक्तात्साध्यलिङ्गात्सङ्कीर्णत्वे सति- यो गद उप्तन्नः, सोऽपि कृच्छ्रसाध्यः| चशब्दः समुच्चये| ततस्तस्मादुक्तसाध्यलक्षणाद्यः सङ्करे द्वित्रिविपर्यये सति स्थितः| तथा च- युवा आतुरः किन्तु न विजितात्मा| विजितात्मा वा किन्तु रोगो मर्मस्थानगः| सर्वौषधक्षमे देहे जातः किन्तु वृद्धः| कदाचिद्युवा न सर्वौषधक्षमो देहः| एवमनया दिशा सर्वमप्यूह्यम्|


आ० र०- कृच्छ्रसाध्यं लक्षयति-शस्त्रादीति| यो गदः शस्त्रादिसाधनः, स कृच्छ्रः-कृच्छ्रसाध्यः| यश्च गदस्ततस्तेभ्यः सुखसाध्यलक्षणेभ्यो जाते सङ्करे स्थितः, सोऽपि कृच्छ्रः| सुखसाध्यलक्षणस्य तद्विपर्ययेण सहैकत्रावस्थानं सङ्करः| यथा-युवजत्वस्य स्त्रीजत्वेन| बालजत्वस्य वृद्धजत्वेन तु सहानवस्थानान्न सङ्करः| एवं सर्वत्र| अस्य च सङ्करत्रैविध्यात्त्रैविध्यम्| अल्पविपर्यये सङ्करे कृच्छ्रः, तुल्यविपर्यये कृच्छ्रतरः, बहुविपर्यये कृच्छ्रतमः| तथा, शस्त्रक्षाराग्निसाधनत्वात्त्रैविध्यम्| एतेषां षण्णां सङ्करे तारतम्यं स्वयमूह्यम्|

स०- बाहुल्येन विपर्यये साध्यलक्षणविपरीतत्वे सत्यायुषो जीवितस्य शेषत्वादक्षीणत्वान्मारयितुमसमर्थः, पथ्यैराहारविहारैर्याप्यो यापनीयः, नासौ प्रत्याख्येयः| एतावानेवास्य प्रत्याख्येयाद्व्याधेर्विशेषो यदायुःशेषत्वं, याप्यस्य व्याधेरायुःशेषमात्रं वर्जयित्वा यदन्यत्तत्सर्वं समानं प्रायेणास्य  प्रत्याख्येयस्य व्याधेः| कस्य विपर्यये सति ? प्रकृतत्वात्सुखसाध्यस्य| पथ्यैराहारविहारैरभ्यसनमभ्यासः पुनः पुनः करणम्, तस्माद्धिताहारविहारसेवनाद्याप्यः|   चिकित्सायामल्पं सुखं दत्त्वा पुनः सोऽल्पेनैव हेतुना प्रतन्यते| तथा  ग्रन्थः (सं.सू.अ.२)- “दत्त्वाल्पं सुखमल्पेन हेतुना  प्रतन्यते| याति नाशेषतां रोगः कर्मजो नियतायुषः| प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः”|


आ० र०- याप्यं लक्षत्वादिति| तत इत्यनुवर्तते| यो गदः सुखसाध्यलक्षणविपर्यये स्थितः,  याप्यः| नन्वौषधैर्निवर्तते चेत्साध्यत्वं, नो चेदसाध्यत्वं, किमिदं तृतीयं याप्यत्वं नामेत्यत आह-पथ्याभ्यासात् शेषत्वात्, पथ्यस्यौषधस्याभ्यासो नित्यसेवनं, तस्माद्यच्छेषत्वं ततो याप्यः| शिष्यते निवर्तमानोऽपि कात्स्न्र्येन  निवर्तत इति शेषः|   निःशेषानिवर्तनान्न साध्य एव, किञ्चिन्निवर्तनान्नासाध्य एव, किन्तु साध्यासाध्यो याप्याख्यः|   कियन्तं कालं याप्य इत्याह-आ आयुषः, यावदायुरस्ति तावद्याप्यः| उक्तं हि सङ्ग्रहे (सू. अ. २)- “दत्त्वाल्पं सुखमल्पेन हेतुना  प्रतन्यते| याति नाशेषतां रोगः कर्मजो नियतायुषः|| प्रपतन्निव विष्कम्भैर्धार्यतेऽत्रातुरो हितैः” इति|

स०-  विद्यत उपक्रमः प्रतीकारो यस्य सोऽनुपक्रमोऽचिकित्स्यः, प्रत्याख्येय इति यावत्| कोऽसावनुपक्रमः ? योऽत्यन्तविपर्यये स्थितः| यो गदोऽर्थाद्याप्यलक्षणादवशिष्टायुः शेषरूपादत्यन्तविपर्यये स्थितः, सर्वक्रियापथातिक्रान्तः, मज्जशुक्रादिगम्भीरधातुगतः, मर्मसन्धिसमाश्रितः, सोऽनुपक्रम एवाचिकित्स्यः, साधयितुमशक्यत्वात्| तथौत्सुक्यादिकृदिति| औत्सुक्यं  मोहश्चारतिश्च ताः करोतीत्यौत्सुक्यमोहारतिकृत्| औत्सुक्यं विषयोत्कण्ठा, मोहो- वैचित्यं चित्तनाशोऽज्ञानम्, अरतिरसुखं  कुत्रचिदवस्थितिः स्थानासनादिष्वनिर्वृतिश्चेतसः, एतावतो यः करोति सोऽनुपक्रमः| तथा दृष्टरिष्ट इति| दृष्टं रिष्टं मरणख्यापकं चिह्नं यस्मिन्  दृष्टरिष्टः, दृष्टमरणख्यापकलक्षणोऽनुपक्रम एव| तथाऽक्षनाशन इति| अक्षाणीन्द्रियाण्युच्यन्ते| चक्षुरादीन्यपि नाशयति सोऽक्षनाशनः, इन्द्रियोपरोधी रोगोऽनुपक्रमो यः शीघ्रमिन्द्रियविघातकृत्| एवं पुरा परीक्ष्य व्याधिचिकित्सामारभेत| अन्यथाऽवश्यं स्वार्थादिहानिमवाप्नुयाद्वैद्यः| तथा  ग्रन्थः (सं.सू.अ.२)- “व्याधिं पुरा परीक्ष्यैवमारभेत ततः क्रियाम्| स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात्” इति|


आ० र०- असाध्यं लक्षयति-अनुपक्रम इति| यो गदः सुखसाध्यलक्षणात्यन्तविपर्यये स्थितः, यश्च औत्सुक्यमोहारतिकृत्, यश्च दृष्टरिष्टः-दृष्टमरणचिह्नः, यश्च अक्षनाशनः- सर्वेन्द्रियविघाती,  चतुर्विधोऽनुपक्रम एव स्यात्| नास्त्युपक्रमः प्रतीकारो यस्येत्यनुपक्रमः| एवशब्दो याप्यव्युदासार्थः| याप्योऽपि निःशेषानिवर्तनादनुपक्रमः, किन्तु किञ्चिन्निवर्तनात्सोपक्रमोऽपि| अयं त्वनुपक्रम एव|| तस्मात्तत्रौषधं कुर्यादित्यर्थादुक्तम्|

Incurable diseases
Incurable diseases possess features that are entirely opposite to those of curable diseases. They are the ones that have stayed long in the body involving all the important tissues and vital organs. Such diseases cause anxiety, fear of death, delusion and restlessness. They also manifest the fatal indications and cause the loss of sense organs and sensory functions. These diseases are anupakramya and are fit to be rejected; such disease leads to death, generally. 33

Which Patient Should be rejected for trearment:

Patient worth rejection
Patient worth rejection
Click to read Sanskrit Tika
स०- एवंविधमार्तमातुरमुपक्रम्यमपि त्यजेत्परिहरेत्| भिषग्भूपैर्द्विष्टं- भिषग्भिस्तथा भूपै राजभिर्द्विष्टम्, वैद्या राजानश्च यं द्विषन्ति| तथा, तेषां द्विषं-शत्रुं, भिषग्भूपान्यो द्वेष्टि, तमपि त्यजेत्| द्विष्टं-शत्रुं चात्मनः| हीनोपकरणमिति उपकरणविकलं हीनचिकित्साङ्गम्| व्यग्रं- कार्यबहुलमन्यकार्यापेक्षिणं कार्यान्तरासक्तचेतसम्| अविधेयं- भिषजः, तदाज्ञां यो न करोति, तमपि त्यजेत्| गतायुषं- परिक्षीणजीवितम्| चण्डं- सहसापकारकरणबुद्धिं क्रूरकर्माणम्| शोकातुरं- स्त्र्यादिविरहोत्थेन शोकेन शुचार्तम्| भीरुं- सभयम्| कृतघ्नं- यः कृतोपकारोऽप्यपकारं करोति| वैद्यमानिनं- अवैद्योऽपि यो वैद्यमिवात्मानं मन्यते स्वमतेनैवौषधं करोति मूढः, तमपि त्यजेत्|


आ० र०- आतुरविशेषेऽप्यौषधं निषेधति-त्यजेदिति| भिषत्भूपैर्द्विष्टमार्तं रोगिणं त्यजेत्| भिषजश्च भूपाश्च भिषग्भूपाः, तैर्द्विष्टम्-ते यं द्विषन्ति| तेषां द्विषं-भिषग्भूपान् यो द्वेष्टि| द्विषमात्मानं यो द्वेष्टि| हीनोपकरणं-औषधसामग्रीरहितम्| व्यग्रं-कार्यान्तरव्याकुलम्| अविधेयं-वैद्यस्यानधीनम्| गतायुषमुत्पन्नस्थायिरिष्टम्| भीरुं-व्यापद्भयात् त्यक्तौषधम्| कृतघ्नमुपकारेऽप्यपकारिणम्| वैद्यमानिनं-अवैद्योऽपि य आत्मानं वैद्यं मन्यते| एषां साध्यानामप्यौषधं न कार्यमित्यर्थः| इति सुखसाध्यादिलक्षणम्|

The patient who is hated by the physician and the king or government should be avoided.
The patient who hates physicians should also be rejected. Physicians should avoid the pa­tient who hate themselves and who is not having the equipments and other facilities required for treatment, The ones who are busy with other activities and who are not giving the required attention for the treatment. They should also reject the disobedient patients whose life seems to have come to an end, who is of an evil mind and is violent and destructive, who is afflicted with great grief, which is full of fear, ungrateful and who in respect of selection of herb, therapies, eatables, activities etc. thinks himself to be a physician. 34

List of Ashtanga Hridayam chapters.

list of ashtanga hridayam chapters
list of ashtanga hridayam chapters

I. SUTRASTHANA

Ashtanga Hridaya SUTRASTHANA Chapters list
Ashtanga Hridaya SUTRASTHANA Chapters list
Click to read Sanskrit Tika
स०- अस्य- अष्टाङ्गहृदयाख्यस्य, तन्त्रस्य- तन्त्र्यन्ते धार्यन्तेऽनेनायुर्वेदार्था इति तन्त्रम् तस्य, अध्यायसङ्ग्रहः- अध्यायानां सङ्ग्रहः संक्षेप एकत्र राशीकरणम्, अतः परं- अस्मादूर्ध्वम्, सुखस्मरणाय मया वक्ष्यते|


स०-इमे पूर्वोक्तास्त्रिंशदध्यायाः, सूत्रस्थानमुक्तम्| आयुष्कामश्च दिनर्त्वीहे च रोगानुत्पादनं च द्रवश्चेति द्वन्द्वः| ईहा चर्या चेष्टेत्येकोऽर्थः| तेन आयुष्कामीयो दिनचर्या ऋतुचर्या रोगानुत्पादनीयो द्रवद्रव्यविज्ञानीयोऽन्नस्वरूपविज्ञानीयोऽन्नसंरक्षा मात्राशितीयो द्रव्यादिविज्ञानीयो रसभेदीयो दोषादिविज्ञानीयो दोषभेदीयो दोषोपक्रमणीयो द्विविधोपक्रमणीयः शोधनादिगणसङ्ग्रहः स्नेहविधिः स्वेदविधिर्वमनविरेचनविधिर्बस्तिविधिर्नस्यविधिर्धूमविधिर्गण्डूषादिविधि राश्चोतनाञ्जनविधिस्तर्पणपुटपाकविधिर्यन्त्रविधिः शस्त्रविधिः शिराव्यधविधिः शल्याहरणविधिः शस्त्रकर्मविधिः क्षाराग्निकर्मविधिः| सूचनात्सूत्रम्, सूच्यतेऽनेन सकलतन्त्रार्थ इति सूत्रस्थानम्, सकलस्य तन्त्रस्य शिरःस्थानीयम्|


आ० र०- इत्येष व्याधिप्रतीकारः सामान्यसंक्षेपाभ्यां व्याख्यातः, एतावानेवार्थोऽस्मिन् शास्त्रे व्याख्येय इति ज्ञापनार्थम्| एवं हि ज्ञाते शास्त्रतात्पर्यं ज्ञायते| शास्त्रे हि केचिदर्था विधीयन्ते, केचिदनूद्यन्ते, केचित्प्रस्तुतसिध्यर्थं अप्रस्तुता अप्युच्यन्ते| शास्त्रतात्पर्यज्ञस्तु विधेयादीन्विविच्य शास्त्रार्थं सुखेन गृह्णाति| अध्यायसङ्ग्रहोऽपि सुखग्रहणोपायः| तेनाध्यायसङ्ग्रहं व्याख्यातुं प्रतिजानीते-तन्त्रस्येति| अतःपरं-सङ्ग्रहानन्तरम्|


आ० र०- अध्यायान् सङ्गृह्णाति-आयुष्कामेति| तत्र आयुष्कामादयस्त्रिंशदध्यायाः, सूत्रस्थानम्|

1. Ayuskamiya adhyaya (desire for long life).
2. Dinacarya adhyaya (daily regimen).
3. Rtucarya adhyaya (seasonal regimen).
4. Roganutpadaniya adhyaya (prevention of diseases).
5. Dravadravya vijnaniya adhyaya (knowledge of liquid materials). 6. Annasvarupa vijnaniya adhyaya (nature of food materials). 7. Annaraksadhyaya (Protection of foods).
8. Matrasitiyadhyaya (Proper quantity of food).
9. Dravyadi vijnaniya adhyaya (Knowledge of substances etc.).
10. Rasabhediya adhyaya (classification of tastes).
11. Dosadi vijnaniya adhyaya (Knowledge of dosas etc.).
12. Dosabhediya adhyaya (classification of dosas).
13. Dosopakramaniya adhyaya (treatment of the dosas).
14. Dvividhopakramaniya adhyaya (two kinds of treatments).
15. Sodhanadigana sangraha adhyaya (groups of drugs for purificatory therapies etc.). 16. Sneha vidhi adhyaya (oleation therapy).
17. Svedavidhi adhyaya (sudation therapy).
18. Vamana virecana vidhi adhyaya (emesis and purgation therapies).
19. Basti vidhi adhyaya (enema therapy).
20. Nasya vidhi adhyaya (nasal medication).
21. Dhumapana vidhi adhyaya (inhalation of smoke therapy).
22. Gandusadi vidhi adhyaya (mouth gargles and other therapies).
23. Ascyotana-anjana vidhi adhyaya (eye drops, collyrium therapies).
24. Tarpana-putapaka vidhi adhyaya (satiating the eye and other therapies).
25. Yantra vidhi adhyaya (use of blunt instruments).
26. Sastra vidhi adhyaya (use of sharp instruments).
27. Siravyadha vidhi adhyaya (venesection).
28. Salyaharana vidhi adhyaya (removal of foreign bodies).
29. Sastrakarma vidhi adhyaya (surgical operation).
30. Ksaragnikarma vidhi adhyaya (alkaline and thermal cautery).

II. SARIRA STHANA (SECTION ON ANATOMY, PHYSIOLOGY ETC).

Ashtanga Hridaya SARIRA STHANA (SECTION ON ANATOMY, PHYSIOLOGY ETC) Chapters list
Ashtanga Hridaya SARIRA STHANA SECTION ON ANATOMY PHYSIOLOGY ETC Chapters list
Click to read Sanskrit Tika
स०- शारीरं शारीरस्थानमुच्यते| किंस्थानमध्यायसङ्ग्रहः| के पुनस्ते ? तानाह| तत्र गर्भावक्रान्तिशारीरम्| तस्य व्यापत् तद्व्यापत् , तस्येति गर्भपरामर्शः, गर्भव्यापच्छारीरम्| अङ्गविभागं शारीरम्| मर्मविभागं शारीरम्| विकृतिविज्ञानीयं शारीरम्| दूतादिविज्ञानीयं शारीरम्| एवमेते षडध्यायाः, शारीरस्थानम्|


आ० र०- गर्भावक्रान्त्यादयः षट्, शारीरम्|

1. Garbhavakranti sarira (embryology).
2. Garbhavyapad sarira (disorders of pregnancy).
3. Anga vibhaga sarira (different parts of the body).
4. Marma vibhaga sarira (classification of vital spots).
5. Vikrti vijnaniya sarira (knowledge of bad prognosis). 6. Dutadi vijnaniya sarira (knowledge of messenger etc.).

III. NIDANA STHANA (DIAGNOSIS OF DISEASES):

Ashtanga Hridaya NIDANA STHANA (DIAGNOSIS OF DISEASES)
Ashtanga Hridaya NIDANA STHANA DIAGNOSIS OF DISEASES
Click to read Sanskrit Tika
स०- सर्वरोगनिदानम्| ज्वरनिदानम्| रक्तपित्तकासनिदानम्| श्वासहिक्कानिदानम्| राजयक्ष्मादिनिदानम्| मदात्ययादिनिदानम्| अर्शोनिदानम्| अतीसारग्रहणीदोषनिदानम्| मूत्राघातनिदानम्| प्रमेहनिदानम्| विद्रधिवृद्धिगुल्मनिदानम्| उदरनिदानम्| पाण्डुशोफविसर्पनिदानम्| कुष्ठश्वित्रकृमिनिदानम्| वातव्याधिनिदानम्| वातशोणितनिदानम्| इत्येवं षोडशाध्यायाः, निदानस्थानम्|


आ० र०- सर्वरोगनिदानादयः षोडश, निदानम्|

1. Sarvroga nidanam (diagnosis of diseases in general).
2. Jvara nidanam (diagnosis of fever).
3. Raktapitta, Kasa nidanam (disease and cough).
4. Svasa-Hidhma nidanam (diagnosis of bleeding disease and cough). 5. Rajayaksmadi nidanam (diagnosis of pulmonary tuberculosis etc.). 6. Madatyaya nidanam (diagnosis of alcoholic intoxication). 7. Arsas nidanam (diagnosis of haemorrhoids).
8. Atisara-Grahani nidanam (diagnosis of diarrhoea and duodenal disorders).
9. Mutraghata nidanam (diagnosis of retention of urine).
10. Prameha nidanam (diagnosis of diabetes).
11. Vidradhi-Vrddhi-Gulma nidanam (diagnosis of abscess, enlargement of the scrotum and abdominal tumour).
12. Udara nidanam (diagnosis of enlargement of the abdomen).
13. Panduroga-sopha-visarpa nidanam (diagnosis of anaemia, dropsy and herpes).
14. Kustha-svitra-krimi nidanam (diagnosis of leprosy, leucoderma and parasites).
15. Vata vyadhi nidanam (diagnosis of diseases of the nervous system).
16. Vatasonita nidanam (diagnosis of gout).

IV. CHIKITSITA STHANA (THERAPEUTICS):

चिकित्सितं ज्वरे रक्ते कासे श्वासे  यक्ष्मणि|
वमौ मदात्ययेऽर्शःसु, विशि द्वौ, द्वौ  मूत्रिते||४२||
विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु|
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्||४३||
द्वाविंशतिरिमेऽध्यायाः————————-|४४|

Click to read Sanskrit Tika
स०- चिकित्सितस्थानं द्वाविंशतिरध्यायाः| ज्वरचिकित्सितम्| रक्तपित्तचिकित्सितम्| कासचिकित्सितम्| श्वासहिक्काचिकित्सितम्| राजयक्ष्मचिकित्सितम्| छर्दिहृद्रोगतृष्णाचिकित्सितम्| मदात्ययचिकित्सितम्| अर्शश्चिकित्सितम्| अतीसारचिकित्सितम्| ग्रहणीदोषचिकित्सितम्| मूत्राघातचिकित्सितम्| प्रमेहचिकित्सितम्| विद्रधिवृद्धिचिकित्सितम्| गुल्मचिकित्सितम्| उदरचिकित्सितम्| पाण्डुरोगचिकित्सितम्| श्वयथुचिकित्सितम्| विसर्पचिकित्सितम्| कुष्ठचिकित्सितम्| श्वित्रकृमिचिकित्सितम्| वातव्याधिचिकित्सितम्| वातशोणितचिकित्सितम्| इमे द्वाविंशतिरध्यायाश्चिकित्सितस्थानम्|


आ० र०- ज्वरचिकित्सादयो द्वाविंशतिश्चिकित्सितम्|

1. Jvara cikitsita (treatment of fevers).
2. Raktapitta cikitsita (treatment of bleeding disease). 3. Kasa cikitsita (treatment of cough). 4. Svasa-Hidhma cikitsita (treatment of dyspnoea and hiccup).
5. Rajayaksmadi cikitsita (treatment of pul. tuberculosis, etc.).
6. Chardi-Hrdroga-Trsna cikitsita (treatment of vomiting, heart disease and thirst).
7. Madatyaya cikitsita (treatment of alcoholic intoxication). 8. Arsas cikitsita (treatment of haemorrhoids).
9. Atisara cikitsita (treatment of diarrhoea).
10. Grahani dosa cikitsita (treatment of duodenal disorder).
11. Mutraghata cikitsita (treatment of retention of urine).
12. Prameha cikitsita (treatment of diabetes).
13. Vidradhi-vrddhi cikitsita (treatment of abscess, enlargement of the scrotum). 14. Gulma cikitsita (treatment of abdominal tumour).
15. Udara cikitsita (treatment of enlargement of the abdomen).
16. Pandu roga cikitsita (treatment of anaemia).
17. Svayathu (sopha) cikitsita (treatment of dropsy).
18. Visarpa cikitsita (treatment of herpes).
19. Kustha cikitsita (treatment of leprosy).
20. Svitra-krimi cikitsita (treatment of leucoderma and parasites).
21. Vata vyadhi cikitsita (treatment of diseases of the nervous system).
22. Vatasonita cikitsita (treatment of gout).

V. KALPASIDDHI STHANA (PURIFICATORY RECIPES, PHARMACEUTICS):

Ashtanga Hridaya KALPASIDDHI STHANA (PURIFICATORY RECIPES, PHARMACEUTICS
Ashtanga Hridaya KALPASIDDHI STHANA PURIFICATORY RECIPES PHARMACEUTICS
Click to read Sanskrit Tika
स०- अत ऊर्ध्वं कल्पस्थानम्| अत्र कल्पे वमनकल्पः| विरेचनकल्पः| वमनविरेचनव्यापत्सिद्धिः| बस्तिकल्पः| बस्तिव्यापत्सिद्धिः| षष्ठो भेषजकल्पः| इत्येवं षडध्यायाः, कल्पसिद्धिस्थानम्|


आ० र० – वमनकल्पादयः षट्, कल्पस्थानम्|

1. Vamana kalpa (emetic recipes).
2. Virecana kalpa (purgative recipes).
3. Vamana virecana vyapat siddhi (management of complications of emesis and purgation therapies).
4. Basti kalpa (enema recipes).
5. Basti vyapat siddhi (management of complications of enema therapy).
6. Dravya-kalpa (pharmaceutics).

VI. UTTARASTHANA:

Ashtanga Hridaya UTTARASTHANA
Ashtanga Hridaya UTTARASTHANA
Click to read Sanskrit Tika
स०- अत उत्तरं, अतोऽस्मात्कल्पसिद्धिस्थानादूर्ध्वमुत्तरतन्त्रम्| बालोपचरणीयः| बालामयप्रतिषेधः| बालग्रहप्रतिषेधः| भूतविज्ञानीयः| भूतप्रतिषेधः| उन्मादप्रतिषेधः| अपस्मारप्रतिषेधः| वर्त्मरोगविज्ञानीयः| वर्त्मरोगप्रतिषेधः| सन्धिसितासितरोगविज्ञानीयः| तिमिरप्रतिषेधः| लिङ्गनाशप्रतिषेधः| सर्वाक्षिरोगविज्ञानीयः| सर्वाक्षिरोगप्रतिषेधः| कर्णरोगविज्ञानीयः| कर्णरोगप्रतिषेधः| नासारोगविज्ञानीयः| नासारोगप्रतिषेधः| मुखरोगविज्ञानीयः| मुखरोगप्रतिषेधः| शिरोरोगविज्ञानीयः| शिरोरोगप्रतिषेधः| व्रणविज्ञानीयप्रतिषेधः| सद्योव्रणप्रतिषेधः| भङ्गप्रतिषेधः| भगन्दरप्रतिषेधः| ग्रन्थ्यर्बुदश्लीपदादिविज्ञानीयः| ग्रन्थ्यर्बुदादिप्रतिषेधः| क्षुद्ररोगविज्ञानीयः| क्षुद्ररोगप्रतिषेधः| गुह्यरोगविज्ञानीयः| गुह्यरोगप्रतिषेधः| विषप्रतिषेधः| सर्वविषप्रतिषेधः| कीटलूतादिविषप्रतिषेधः| मूषिकालर्कविषप्रतिषेधः| रसायनाध्यायः| वाजीकरणाध्याय इति| एवमेते चत्वारिंशदध्याया उत्तरतन्त्रम्| तदिति बालस्य परामर्शः| द्वौ द्वाविति वर्त्मनि द्वौ, सन्धौ द्वौ, यथासंख्येन| त्रय इति दृक्तमोलिङ्गनाशेषु प्रत्येकमेकैकः| ग्रन्थ्यादिक्षुद्ररोगगुह्यरोगेषु पृथग्द्वयं प्रत्येकं द्वौ द्वौ| अनपत्यानामप्रजानां पुंसां चत्वारिंशोऽध्यायो बीजपोषणः शुक्रवृद्धिहेतुरिति|
इत्येवमनेन प्रकारेण, सविंशमध्यायशतं षड्भिः स्थानैः सूत्रशारीरनिदानचिकित्साकल्पसिद्ध्युत्तरतन्त्रैरुदीरितमिति भद्रम्|

इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थान आयुष्कामीयोऽध्यायः प्रथमः|| १||


आ० र०- बालोपचरणीयादयश्चत्वारिंशत्, उत्तरम्|


आ० र०- इति षड्भिः स्थानैर्विंशमध्यायशतमस्मिन् शास्त्रे उक्तम्| अत्रायुष्कामरोगानुत्पादनद्रवादिशब्दाः आयुष्कामीयरोगानुत्पादनीयद्गवद्गव्यविज्ञानीयादिसंज्ञानां लक्षकाः| दिनर्त्वीहादिशब्दाः दिनचर्यर्तुचर्यादिसंज्ञानां वाचकाः| शुद्ध्यादयः-शोधनादिद्रव्यगणाः| दृक्सेकः-आश्चोतनम्| क्षाराग्निकर्मिक एकोऽध्यायः| मदादयो-मदात्ययादयः| विशि-विड्रोगयोरतीसारग्रहण्योः| मूत्रिते-मूत्ररोगयोः मूत्रकृच्छ्र (मूत्राघात) प्रमेहयोः| भूतगे-भूतविज्ञानीयतत्प्रतिषेधयोः| वर्त्मसु-वर्त्मरोगविज्ञानप्रतिषेधयोः| सन्धिषु-सन्धिगतरोगविज्ञानप्रतिषेधयोः| दृगादिषु त्रयः, न तु प्रत्येकम्| सर्वगादिषु षट्सु प्रत्येकं द्वौ, विज्ञानप्रतिषेधभेदात्, व्रणे तु व्रणसद्योव्रणभेदात्| सर्वगे-सर्वाक्षिरोगे| भङ्गे-अस्थिभङ्गे| ग्रन्थ्यादिप्रभृतिषु त्रिषु पृथक् द्वयं, विज्ञानप्रतिषेधभेदात्| अनपत्यानां बीजपोषणो-वाजीकरणम्| विंशंविंशत्युत्तरम्| इत्यध्यायसङ्ग्रहः|

इति हेमाद्रिटीकायामायुर्वेदरसायने|
अध्याय आयुष्कामीयः सामस्त्येन निरूपितः|| १||

1. Balopacaraniya adhyaya (care of the new born baby).
2. Balamaya pratisedha (treatment of diseases of children).
3. Balagraha pratisedha (treatment of evil spirits).
4. Bhuta vijnaniya (knowledge of demons).
5. Bhuta pratisedha (treatment of demons).
6. Unmada pratisedha (treatment of insanity).
7. Apasmara pratisedha (treatment of epilepsy).
8. Vartma roga vijnaniya (knowledge of diseases of eyelids).
9. Vartma roga pratsedha (treatment of diseases of eyelids).
10. Sandhisitasita roga vijnaniya (knowledge of diseases of fornices, sclera and cornea). 11. Sandhisitasita roga pratisedha (treatment of diseases of fornices, sclera and cornea). 12. Drsti roga vijnaniya (knowledge of diseases of vision).
13. Timira pratisedha (treatment of blindness).
14. Linganasa pratisedha (treatment of blindness).
15. Sarvaksi roga vijnaniya (knowledge of diseases of the whole eye). 16. Sarvaksi roga pratisedha (treatment of diseases of the whole eye). 17. Karna roga vijnaniya (knowledge of diseases of the ear).18. Karna roga pratisedha (treatment of diseases of the ear).
19. Nasa roga vijnaniya (knowledge of the diseases of the nose).
20. Nasa roga pratisedha (treatment of diseases of the nose).
21. Mukha roga vijnaniya (knowledge of the diseases of the mouth).
22. Mukha roga pratisedha (treatment of diseases of the mouth).
23. Siro roga vijnaniya (knowledge of the diseases of head).
24. Siro roga pratisedha (treatment of diseases of the head).
25. Vrana pratisedha (treatment of ulcers).
26. Sadyo vrana pratisedha (treatment of traumatic wounds).
27. Bhanga pratisedha (treatment of fractures).
28. Bhagandara pratisedha (treatment of rectal fistula)
29. Granthi-arbuda-slipada-apaci-nadi vijnaniya (knowledge of tumours, cancers, filariasis, scrofula and sinus ulcer).
30. Granthyadi pratisedha (treatment of tumours etc.).
31. Ksudra roga vijnaniya (knowledge of minor diseases).
32. Ksudra roga pratisedha (treatment of minor diseases).
33. Guhya roga vijnaniya (knowledge of diseases of genital organs).
34. Guhya roga pratisedha (treatment of diseases of genital organs).
35. Visa pratisedha (treatment of poisoning).
36. Sarpa visa pratisedha (treatment of snake bite poison).
37. Kitalutadi visa pratisedha (treatment of poison of insects, spiders etc.).
38. Musika-alarka visa pratisedha (treatment of poison of mouse, rabid, dog etc.).
39. Rasayana vidhi (rejuvination therapy).
40. Vajikarana vidhi (virilification therapy).

first chapter of Sutrasthana of Ashtanga Hridayam
first chapter of Sutrasthana of Ashtanga Hridayam

End of the first chapter of Sutrasthana of Ashtanga Hridayam.

Download Ashtanga Hridayam PDF Book Online.

FAQs

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Book Your Appointmentspot_img

Latest article

Table of contents [hide]

More article

- Advertisement -Newspaper WordPress Theme